________________
सम्यग् दर्शन धारकं जयकर, ज्ञानांबुधि स्वामिनम् , चारित्रेषु दृढं मनोज्ञ हृदयं, कामाग्नये वारिदम् । दातारं त्रिजगज्जनाय मधुरां, स्नेहेन वाणी सुधाम्, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ||५|| क्रोधाग्नेः शमने पयोद सदृशं , वज्रं तु मानाद्रये, मायाक्ष्मां खनितुं खनित्रमतुलं , बधं च लोभाहये । हर्तुं मोहरजांसि वायु सदृशं , यत् कीर्तिरिन्दूज्वला, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ॥६॥ सद्वाण्या प्रतिबोधकं च भविनां, सद्बोधि रत्नप्रदम्, मिथ्याज्ञान तमोवितान हरणे, स्फूर्जत् प्रदीपोपमम् । संसारांबुधि शोषणाय तरणिं, श्रेयस्करी यत्क्रीया, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ||७|| कुर्वन्तं निज सूरि विक्रम गुरो, भक्ति शिवायात्मनः, जानन्तं त्रिजगत्स्वभावमनिशं , यन्नाम समंगलम् । निघ्नन्तं जन पाप ताप निचयं, सद्बोध शीतांशुना, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा ||८|| कर्मारि हननेच्छया सुमनसा, नित्यं बुधैः स्मर्यते, भव्यै भक्तिवशेन वचसा, यो भूरि संस्तूयते । श्री सूरीश्वरमुत्तं, शुभपदं प्राप्तं च भक्त्या गुरो, स्तस्येदं रचितं हि ''कल्पयशसा", स्तोत्रं मया भक्तितः ॥९।।
.
regn