________________
लब्धि विक्रम पट्टालंकार दक्षिण केसरी. आ.भ.श्री.वि. स्थूलभद्रसूरीश्वराणां स्तुत्यष्टकम्
(शार्दुलविक्रीडितम्)
विश्वे विश्रुत कान्तिलाल सुकुले, लब्ध्वावतारं परम् , चारित्रं गुरु लब्धिसूरि निकटे, प्रेम्णा ग्रहीतं शुभम् । शिष्योऽभूद्गुरु विक्रमस्य विनयी, विद्याविलासी सदा, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा
॥१॥
चारित्रेण विराजितं विधुसमं , रूपं सदा निर्मलम् , कारुण्येन युतं प्रशस्य ह्रदयं, वैराग्यरत्नाकरम् । भव्यांभोज विकासकं तरणिवत् जैनागमैः सर्वदा, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा
||२||
राग-द्वेषविघातकं प्रवचने, वैराग्य वार्ताकरम् त्यागे यत् प्रमुखं विकस्वर मुखं , कर्मक्षये तत्परम् । ध्याने नित्य रतं जगत्सुखकरं, विध्वंसकं चापदाम्, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा
॥३॥
हन्तारं तपसा स्वकर्म निचयं, ज्ञाने निमग्नं सदा, दग्धेभ्यो भववह्निना सुवचसा, शान्तिप्रदं सर्वदा । मर्येभ्यः शिवदं प्रशान्त वदनं, चक्षुः सुसौम्यं तथा, तं वंदे ध्रुव तारकं मुनि गणे, श्री स्थूलभद्रं मुदा
॥४||
PARS
TALA
MAITARITA
25
ISSIrr
firmenimamsarala RAMSARDARSANDESIRE