SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चेतोदूतम्. अथ चित्तस्य शक्तिचातुर्यदर्शनपूर्व सर्व स्वकृत्यं व्यक्त्या प्रतिपादयतित्वय्येवेयं ननु निरुपमा चातुरी शक्तियुक्ता भ्रातश्चेतः ! कथितमखिलं कृत्यमेतन्मया तत् । दत्से पुंसां नियतमवदन्नेव सर्वार्थसिद्धिं प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥१२४॥ मत्सन्देशैः स्तुतिसहचरैः श्रीगुरूंस्तोषयित्वा नीत्वा प्रीत्याऽनुनयपदवीं वल्लभां च प्रसत्तिम् । व्यावृत्तः सन् पुनरपि सखे ! तद्वचोभिर्ममेदं प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२५ ॥ अथ स्वकृत्यं सर्वमुपसंहरन् स्वार्थसिद्धिसम्भावनाप्रीतः सकलदुःखोच्छेदावन्ध्य हेतुभूतहितोपदेशपूर्व मदहस्स होऽयं प्रियावियोगस्तवमा भूदित्याशीवादेन चित्तं प्रमो. दयतिएतत्कृत्वा परहितरत ! स्वान्त ! नित्यं गुरूणां सेवासौख्यानुभवपरमानन्दलीनो भव त्वम् । सच्चिल्लक्ष्म्या जलमुच इवात्यन्तमौनत्यभाजो मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥१३६॥ , सत्-चिद्रूपया संपदा विप्रयोगो विरहो मा भूत् न भवतु यथा जलमुचो मेघस्य विद्युता सह वियोगो न भवति । जलमुच इति साकूतं पदम्। तेनैतद् व्यकं यजलमोचनशीलस्य हि भेघस्य विधुता सह वियोगो न भवतीति ॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy