________________
२८
चेतो दूतम्.
निस्सारेऽस्मिन् प्रकृतिविर से भूरिदुःखेऽल्पसौख्ये
,
संसारे किं भवति बहुना फल्गुना शोचनेन । यस्माज्जन्मान्तरविरचितैः कर्मभिर्देहभाजां
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ११९ ॥ कुर्वे किंवा गुणवति ! भवद्विमलम्भोत्थदुःखात् प्राप्तोत्कर्षात् प्रसरतितरां दुर्धरो वाष्पपूरः । किं नो शोकात्पथि विरहिणां श्रस्तरेषु स्थितानां मुक्तास्थूलास्तरुकिशलयेष्वलेषाः पतन्ति ॥ १२० ॥ तन्मे भाग्यं क नु यदुदयात्तोषितश्रीगुरुभ्यः संयोगं ते भृशमसुलभं प्राप्य पीनप्रमोदौ । आवां तत्तत्सुखमभिमतं सङ्गतौ दम्पती वा
निर्वेक्ष्यावः परिणतशरचन्द्रिकासु क्षपासु ॥ १२१ ॥ नान्या काचित् कचिदपि सती त्वत्समा तन्न ते मांत्यक्तुं युक्तं त्वयि कृतरतिं यत्तदुत्प्रेक्ष्य मिथ्या । अन्यस्त्रीभिः पतिरपगुणस्त्यज्यते यदुक्त्वा
है
दृष्टः स्वमे कितव ! रमयन् कामपि त्वं मयेति ॥ १२२॥ एकान्तेन त्वरयतितरां वल्लभे विप्रलम्भो
व्यामूढं मां तव नवघनाश्लेषसौख्योत्सवाय | वाच्छाः प्रायो ननु तनुमतां प्रत्यहं प्रत्यभावादिष्टे वस्तुन्युपचितरसा : प्रेमराशीभवन्ति ॥ १२३ ॥
असारेण । २ मोक्ष्यादे ॥