________________
चेतोदूतम्. ___ अथ स्वकार्यसिद्धिं दर्शयतिकान्तं स्वान्तं द्रुतमवहितं निर्ममे तत्तथैवाऽ
भूवन् श्रीमत्परमगुरवो विश्वपूज्याः प्रसन्नाः। सोल्लासाऽभूत्सपदि हृदयस्वामिनीव पसत्तिः
केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ १२७ ॥ ज्ञात्वा सम्यग् व्यतिकरमिमं जातकारुण्यपूरैः
श्रीसूरीन्द्रः श्रितहितकरैस्तूर्णमेव प्रणुना । सा संश्लिष्य प्रमृतपरमानन्दमेदखलंतं __भोगानिष्टानभिमतसुखान् भोजयामास शश्वत्॥१२८॥ सन्ति श्रीमत्परमगुरवः सर्वदाऽपि प्रसन्ना
स्तेषां शिष्यः पुनरनुपमाऽत्यन्तभक्तिप्रणुनः । तन्माहात्म्यादपि जडमतिर्मेघदूतान्त्यपादै
श्वेतोदूताभिधमभिनवं काव्यमेतद्वयधत्त ॥ १२९ ।।
॥ इति श्रीचेतोदूताभिधकाव्यं समाप्तम् ।।