________________
२१
चेतोदूतम्. तस्यावश्यं हरति न यथा मानसं कामिनी सा . __या तत्र स्यायुवतिविषये सृष्टिराद्येव धातुः ॥१०॥ या ज्ञानश्रीः सकृप ! भवता सुप्रसन्नेन तस्मै
दत्ता दुःखव्यपगमकरी चित्तविश्रामधाम । प्रम्लानां तामपि निजसखीविप्रयोगादिदानी ____ जातां मन्ये तुहिनमथितां पद्मिनी वान्यरूपाम् ॥१०॥ सोऽयं तस्या गुरुविरहतो भ्रान्तचेताः समन्ता
त्तामेवालोकयति परितः कल्पनालप्तरूपाम् । रष्टया पृच्छत्यपि हृदयजस्नेहतो हे प्रिये ! त्वं .
कच्चिद्भर्तुः स्मरसि रसिके ! त्वं हि तस्य प्रियेति॥१०२॥ वात्सल्यं ते जगति परमं तन्न तस्मिन्नुपेक्षा ... युक्ता भक्ते ! प्रगुणय न किं तां यतस्त्वद्वशे सा। उद्विग्ना या किमनुनयते मानिनी नालिंवर्ग
स्तामुन्निद्रामवनिशयनासन्नवातायनस्थः॥ १०३ ॥ तिष्ठन् गच्छन् स्वयमुपविशन् वापि जाग्रत्स्वपन्ना
___ गाढं दुःखी सविवशमना ध्यायति त्वत्प्रसत्तिम् । .' या स्वाभीष्टा स्मरति न कथं वासरान् पान्थराजी
तामेवोष्णैर्विरहजनितैरश्रुभिर्यापयन्ती ॥ १०४ ॥ दुःखोद्रेकात्सततगलितैः प्लाविता बाष्पपूरैः
शक्ता नैवोल्लसितुमलसा कातरा तस्य दृष्टिः ।
१ सोऽयं मद्रूपो जनः । तस्याः ज्ञानश्रियाः। २ सखोजनः । । सघिवशं भरिष्टदूषितं मनो यस्य तथाभूतः॥