________________
चेतोदूतम्. रोहन्मोहाद्विरचिततनोदेशनं वत्पसत्त
राकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशम॥१०५|| गाढोद्वेगप्रभवजडतायोगतो मुद्रितत्वं
तत्माप्त्याशाजनितपरमानन्दतः स्मेरभावम् । आबिभ्राणा स्फुरति नियतं सांप्रतं तस्य बुद्धिः
साभ्रेऽनीय स्थलकमलिनी'न प्रबुद्धा न सुप्ता ।।१०६।। आशाबद्धी गमयति दिनान् दैन्यवानेष साक्षा
त्तस्य स्वामिन् ! यदि न भविता सङ्गमस्त्वत्प्रसत्तः। . स स्तोकाम्भ:स्थितशफरिकेवातिदुःखातिरका
न्मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०७॥ . कोऽप्येतस्मादिह पुरवरादागतः स्यादकस्माद
दृष्ट्वाऽत्यन्तं सपदि मुदितोऽत्यन्तसम्भ्रान्तवृत्तिः। सोल्लासं ते कुशलमनिशं पृच्छति स्वच्छभावः
पूवाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ १०८ ॥
अथ पूर्वोक्तमपसंहरन् पञ्चदशभिः काव्यश्चित्तं प्रति श्रीगुरुराजप्रसत्तिप्रियाविषयं सन्देशसर्वस्वमुपदिशतिएवं दीव्यद्गुणजलनिधीन वर्यगाम्भीर्यभाजः
पाठीनौवैश्चिरपरिचितान् श्रीगुरून् ज्ञापयित्वा ।
१ पाठिनां अध्ययनशीलानां शिष्याणां इनाः प्रवरास्तेषां, पाठीनानां सहस्रदंयागां मत्स्यविशेषागां च ओषैः समूहैः ॥