________________
चेतोदूतम्. मन्ये मेघस्तदुपरि रुषेवात्र वर्षासु धत्ते
खद्योतालीविलसितनिभां विधुदुन्मेषदृष्टिम् ।। ९० ॥ नित्यं स्फारीकृतगुणगणः सर्वदोषान्तकस्त्वं .
वृद्धिं किश्चिन्न खलु सहसे कापि दोषाकरस्य । भूयो भूयः क्षयमयदिदं तेन किं बिम्बमुच्चै-:.
रिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ ९१ ॥ वादिश्रेणी विपिनमगमत्त्वन्जिता तत्र याव- .
द्गातुं लग्ना सकरुणमसौ दुःखविस्मारणार्थम् । मुह्यत्येषा घनतमशुचा तावता शून्यभावा
द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥१२॥ कीर्तिः कान्ता भ्रमति भवतः सर्वतस्त्यक्तशङ्का . दूरेऽप्येका जगति विगतवीडमाक्रीडते च । ब्रूहि स्वामिन् ! किमु समुचिताः संभवेयुः सतीनां
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ९३ ॥ श्रुत्वा नामाऽपि हि तव भिया व्याकुला वादिनोऽमी
जातोत्कम्पास्तरलनयनाः काकनाशं प्रनष्टाः । तेषां योषाः सुचिरमभवन् दुःखिताः सारयन्त्यो
गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ ९४ ॥ दीना मीना इव जगति ये प्राणिनस्त्राणहीना
स्तानिःशेषानिखिल वनोद्धारबद्धावधानः । त्वं कारुण्याधिगतहृदयस्त्रायसे धीवरोऽपि
प्रायः सर्वो भवति करुणात्तिराद्रोन्तरात्मा ॥ ९५॥