________________
चतोदूतम्.
चित्रं जाड्यमेसर रहितः संवरैः पूरितस्त्वं कासारत्वं श्रयसि सुभगः स्मेरपद्मावलीभिः । तज्जानेऽहं जडेपरिचितं मानसाईं सरस्त
२१
न्न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ८६ ॥ यः सन्तापं शमयति भुवः पुष्करावर्त्तमेघो
यो वाऽत्यन्तं जगति बहुधाऽन्योपकारं विधत्ते । विद्युद्दीपप्रसृमर महोभास्वरत्वेन साक्षात्
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८७ ॥ रागाक्रान्तं त्रिजगदखिलं विश्ववन्द्यं विना त्वा
मास्तामन्यः सुरतनिरतो हन्त वृक्षोऽपि कश्चित् । अम्भोजाक्ष्याः कुचयुगदृढालिङ्गनस्याभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहदछद्मनाऽस्याः ॥ ८८ ॥ स्वामिन् ! शिष्यावलिवरवनीं पुण्यसंपल्लवाढ्यां
शिक्षातोयैर्नयसि नितमामुन्नतिं श्रीघनस्त्वम् । चेतोहारी कलियुगरजन्युद्गमात् सद्गुणौघो
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ ८९ ॥ विश्वाराध्ये गुणवति गुरौ त्वय्यपि प्राणिनो ये साक्षादीर्ष्याकलुषितहृदः प्रातिकूल्यं प्रपन्नाः ।
१ जाड्यं अज्ञत्वं शीतत्वं च; शीतत्वरहितत्वं च कासारस्य सरस आश्चर्यापदिकम् । २ जडै: । डलयोरक्यात्, जलैः, अज्ञैश्च परिचितं संगतम् । ३ संपदां लवाः, सम्यक् प्रकाराणि पल्लवानि च तैराढ्यां शिष्यमण्डलीरूपां बनीं श्रौघनः लक्ष्मीपुर्णे भेघश्च त्वं नितमां अनवर तं उन्नतिं नयसीत्यर्थयोजना ॥