________________
२०
चेतोदूतम्.
कारुण्येनोपदिशति हितं निर्विशेष समेषां
तत्त्वज्ञेऽपि त्वयि सति जगत्तारणकप्रवीणे । . धिग् व्यामोहं कतिचन परे भ्रान्तचित्ता वधूभि
बंद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ८१ ॥ चिन्तातीताखिलसुखकरीं त्वत्प्रसतिं दुरापां
प्राप्य स्वर्ग परिमितसुखं कः समीहत विद्वान् । यद्यप्यत्र त्रिदशतरुणीकामितं सर्वदैवा
ऽप्येकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ८२ ॥ . ये मोहान्धा घनधनमदावेशनश्यद्विवेका
मन्दायन्ते तव पदयुगोपासने भाग्यलभ्ये । दुःखं प्राप्स्यन्त्युपनतजराद्यामदस्ते नृणां किं
वित्तेशानां न खलु च वयो यौवनादन्यदस्ति।।८३॥ एषा योषा जगति कुगतिद्वारमेवं विदित्वा
येन त्यक्ता रज इव परब्रह्मलक्ष्मीरतेन जेतुं तं त्वां प्रभवति कथं चित्तभूहन्त ! यस्मा___तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ८४ ॥ स्निग्धच्छायः सुपरिकरितः साधुपात्रैरमात्रै
मङ्गल्यश्रीरभिमतफल श्लाघनीयस्त्वमेव । विश्रामार्थ जगति विधिना निर्मितः शर्महेतु
हस्तपाप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ८५॥ १ सर्वेषाम् ॥