________________
१८
चेतोदूतम्.
प्रत्यादिष्टाभरणरुचयश्चन्द्रे हासव्रणाः ॥ ७२ ॥
त्रिभिर्विशेषम् ।
चेतोरङ्गे दृढतमगुणे सन्मतिर्न र्त्त की यं
त्वच्छिष्याणां परमनिपुणा नृत्यति स्फुर्तियुक्ता । इष्टानर्थान् समभिलषतां शास्त्रतत्त्वोपदेशे
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ७३ ॥ विश्वस्वामिन्ननुपमगुणैस्तीर्थकुतुल्यता ते
प्रज्ञोन्मेषे सति तनुमतां व्यज्यते व्यक्तमेव । यद्वत्तैस्तैर्गतिरभसतः स्रस्तपुष्पादिभावै
शो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥७४॥
(
यद्वा
माद्यद्वादिव्रजमदतमःस्तोमनिर्नाशकस्यत्यन्तं मुक्तास्तमनविपदः सर्वदाप्तोदयस्य । चिह्न रात्रावपि हि विदितैस्त्वत्तापस्य सत्केनैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥७५॥
१ चन्द्रहासः खड्गः । २ त्वद्गम्भीरध्वनिरूपेषु पुष्करेषु वाद्यभाण्डेषु वाद्यमानेषु शिष्यहृदयरूपायां नाट्यशालायां सुबुद्धिरूपा नर्तकी नृत्यतीत्याशयः । ३ निशायां गमनविषयीकृत: कामिनीनां अभिसारिकाणां मार्गो यथा सूच्यते तथेति पूर्वार्धन संबन्ध: । ४ त्वत्प्रतापस्य रात्रिन्दिवं तथात्वेनैव वर्तमानस्य चिह्नः सूर्योदयेऽपि कामिनीनां रात्रिसंबन्धी एव मार्ग: सूच्यते इति संबन्धः ॥