SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ चेतोदूतम्. विश्वे तेषामसितकुशयो विस्तृतं तिर्यगुच्चैः श्यामः पादो बलिनियमनाऽभ्युद्यतस्येव विष्णोः॥६३।। बाहुल्येनाखिलभुवि गतः पूर्णमेकार्णवत्वं ___स्वच्छातुच्छस्फटिकविशदस्त्वद्यशोराशिरिदः । सान्द्रीभूतः प्रथयति महाश्चर्यलक्ष्मी न केषां ___ राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥६४॥ कैलाशाभ्युनतसितभवत्कीर्तिराशेः प्रसव स्वेनोक्षिप्ते सति कुमतिनां दुर्यशश्चक्रवाले । श्रीसूरीश ! स्फुरति सुषमा काऽप्यपूर्वा पृथिव्या___ मंसन्यस्ते सति हलभृतो मेचके वाससीव ।। ६५ ।। निस्तुल्यार्थावलिमाणमयैः शास्त्रसानुप्रतानै___ विश्वग्व्याप्तो जिनमतमहारोहणाद्रिश्वकास्ति । तस्मिन्नव्यानघमणिगणानिच्छतां वाप्रबन्धैः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६६ ॥ हा! गच्छन्तु क शरणमिमाः शिष्यसारङ्गमालाः प्रीणास्युच्चैर्जलद इव चेन्नैव पुण्यामृतेन ।' वाणीरूपैस्त्वमपि यदि वाऽभीष्टलाभाशयोक्ताः ___ क्रीडालोलाः श्रवणपरुषैर्जितैर्भापयेस्ताः ॥ ६७ ।। श्रीमान् श्रेयःप्रततिसुभगः सत्फलप्राप्तिहेतु-' १ जगात । जगद्वाचकस्य हि विश्वशब्दस्य सर्ववाचि-सर्वशब्दसाहचर्या. न सर्वनामत्वम् तेन न स्मिन्नादेश। २ इद्धः दीप्तः। ३ सुषमा परमा शोभा। ४ श्रेयांसि पुण्यानि तेषां प्रततयः पयस्ताभिः सुभगः, अन्यत्र श्रेयस्य: श्रेष्ठा या: प्रततयो लताः ताभिः सुभगः ॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy