________________
चेतोदूतम् .
सम्यक् शृण्वन् श्रुतिसुखकरान् जन्मनस्त्वं समानानामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ||३९|| श्रीमत्सूरीश्वरपरिचयात्सिद्धचूर्णादिवाप्तात्
कोन्तत्वं ते सपदि भविता स्वान्त ! तद्येन पश्चात् । गाढोत्कण्ठा वरगुणरमापक्ष्मलाक्ष्यः सलीला
११
नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ ४० ॥ तत्र भ्रातस्तदनु विजयानन्ददायाः प्रियाया
बुद्धेः सत्याः शिवँ इव भवान् लप्स्यते निर्विलम्बम् । गाढा श्लेषं समहिमगुणे श्रीगुरौ गौरवार्डे शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः ॥ ४१ ॥
यथा च
श्रीसूरीन्द्रान् विनयविधिभिः सेवमानः प्रशस्तैज्ञतोत्साहः स्फुटमपि धिया लप्स्यसेऽभीष्टसिद्धिम् । अर्चन् लङ्केश्वर इव शिवं नव्यलूनैः शिरोभिः शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः ॥ ४२ ॥ विज्ञानश्रीप्रभृतिललना लोभनीयाः प्रसन्नै - रेवोदारैर्विनयरुचिरैः सामवाचां प्रपञ्चः ।
१ ( आप्तात् लब्धात् ) सिद्धस्य सिद्धविद्यस्य चूर्णादिव । २ का - न्तत्वं चारुत्वं पतिभावं च । ३ यथा शिवः सत्याः भवान्या आलिङ्गनं लभते तथा भवानपि बुद्धेः आलिङ्गनं लप्स्यते इति संबन्धः । मनसो हि बुद्धया ( गुणेन ) योगो न्यायसिद्धः ॥