________________
चेतोदूतम्.
चेतस्तस्मानवसमुदिताम्भोदवत्सर्वथा त्वं
तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥४३॥
अथ श्रीगुरुस्तुतिप्रस्तावनाय स्वकार्योपक्रमाय च चित्तं प्रार्थयमान आह- . गाई पूर्णा जलधय इवामेयमाहात्म्यरत्नैः
स्तोतव्याः श्रीपरमगुरवः स्वान्त ! निर्णिक्तभक्त्या । अव्याक्षेपं तदनु कृपया मत्कृते त्वं यतेथा
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४४ ॥ चतुष्पञ्चाशता काव्यैः स्तुतिप्रकारमेव पूर्व चित्तं प्रति
शिक्षयतिसर्वत्रापि प्रस्मरमहा यः परेषां हि तेज... स्तेजोभाजामपि न सहतेऽतीवतीव्रप्रतापः । सूरः सोऽपि त्रिभुवनगुरी किं महद्भिर्महाभिः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४५ ॥ मोहाम्भोधौ विषमविषयमोच्छलन्मत्स्यजाले
शृङ्गाराम्भाप्रभवमदनोत्तुङ्गरगत्तरङ्गे । .. धीरत्वेन प्रभवति जनस्त्वां विना नैव कश्चि
न्मोघीकर्तुं चटुलशफरोद्वर्तनपेक्षितानि ॥ ४६॥ स्वामिन् ! धन्यो भवसि न कथं विश्वमान्यो यतस्त्वं
.. तत्त्वातत्त्वावगतिवशतोऽत्यन्तनिस्सङ्गचेताः । - दुःखत्याज्यानिखिलविषयांस्त्यक्तवान् पूर्वमेव
ज्ञातास्वादो विपुलजघना को विहातुं समर्थः ॥४७॥