________________
चेतोदूतम्.
वादेक्षिप्ताखिलपरहरिहुर्यशो राशिभाजा
रक्तंश्वेतप्रसृमरमहः कीर्त्तिपूरेण येषाम् ।
आकाशस्य प्रसरतितमां श्यामवर्णस्य शोभा बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ कारुण्यार्द्रा अभिदधति ये वत्सला भव्यलोकं चेत्पापस्योपरममचिरादीह से दुःखभीरुः । यस्माद्भावात्कृतमिदमनेनैव शुद्धेन तद्भोः !
किञ्चित्पश्चाद्वज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥ श्री भास्वन्तो जगदुपकृतामुद्यता स्मेरॅप
श्लाघ्यं लब्ध्वोदयमनुदिनं प्रीणयन्ति प्रपन्नम् । सच्चक्रं ये प्रथितमहसः कोऽथ वाऽन्योऽपि काले प्राप्ते मित्रे भवति त्रिमुखः किं पुनर्यस्तथोच्चैः ॥ १७॥ दक्षाः शिष्या निभृतमनसो ये विवेकप्रत्रेकाः
भक्ति स्तोकामपि विदधते शुद्धभावेन युक्ताः ।
१ वादे क्षिप्तानां पराजितानां अखिलानां परेषां वादिनां यो हरित ( हरिमलिश्यामानामैक्यात्) श्यामो दुर्यशोराशिः तं भजति स्म तेन, तत्सं गतेनेति भावः । २ नीलरतश्वेतपरदुर्दशो यन्महः कीर्तिपुरस्य बर्हस्य च मयूरपिच्छस्य॑सादृश्यं । ३ आकाशस्य विष्णोश्च साम्येन । ४ तत् तस्मात् कारणाद् भो भव्य लोक ! यस्माद् भावादिदं पापं कृतं अनेनैव शुद्धेन उत्तरेण प्रधानेन भावेन पश्चाद् व्रज निवर्तस्व प्रतिक्रमं कुरुष्वेति योज्यम् । ५ स्मेरा पद्मा श्रीर्ज्ञानादिसंपत् पक्षे पद्मानि कमलानि! यत्र तं उदयं मध्येति योजना |