________________
४
चेतोदूतम्, तन्मन्येऽहं ननु जिगमिषोः सेवनार्थ प्रयान्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥११॥ अथ त्रयोविंशत्या काव्यश्चित्तस्य समुत्साहनाय श्रीगुरुराजान् वर्णयतिदोषावाप्तौ दधदनुदिनं शोकमस्तोकमुच्चैः
सच्चक्रः स्यात्कथमिव न हि श्लाघनीयः स यस्य । 'योगे जाते भवति महतां भास्वतामत्र येषां
स्नेहव्यक्तिश्चिरविरहजं मुश्चतो बाष्पमुष्णम् ॥ १२ ॥ गङ्गातीरे त्रिनयनजटाजूटदेशे शशाङ्क: ___ शङ्के स्थित्वाऽन्वहमपि तपस्तप्यते वृद्धिहेतोः । भूयो भूयो यदसमयशःस्पर्द्धनोद्भूतपापात् . क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपभुज्य ॥१३॥ सद्वत्तश्रीजिपंतिरिवामात्रपावित्र्यशाली
त्रैलोक्येऽपि प्रसरतितरां यद्गुणानां समूहः । मातङ्गा मामिह निजकरैर्मा स्पृशन्त्वित्यमीषां
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्॥१४॥
१ यतः कीर्तिविवेकाभ्यां राजहंसाः श्रीगुरुभिर्जिताः, ततोऽहं मन्ये से श्रीगुरूणां सेवनाथ प्रयान्तो राजहंसा भवतस्तव जिगमिषाः सहायाः संपत्स्यन्ते । २ दोषाणां दूषणानां पले दोषाया रात्रेवाप्तौ । ३ सतां चक्रः समहः पक्षे संचासौ चक्र: चक्रवाक: । ४ चन्द्र : अतिकष्टं यथास्यादेवं शिवजटाजूटदेशे स्थित्वा श्रोतसां परि समन्ताल्लाघवोपेतं पयो जलं उपभुज्य च पीत्वा तपस्तप्यते इति संबन्धः । ५ द्विजपतिश्चन्द्रो ब्राह्मणश्च । ६ मातमा हस्तिनचाण्डालाश्च । ७ पीवरकरग्रहान् ॥