________________
३
चेतोदूतम् . दुर्लक्षं त्वां कथमपि समालम्ब्य तत्त्वार्थसिद्धयै
प्रौढिं प्राप्ता अपि निरुपमा योगिनोऽप्युत्सहन्ते । स्वाभीष्टार्थाधिगमविषये कः प्रतीक्षेत धीमान्
न स्यादन्योऽप्यहमिव जनो यः पराधीनदृत्तिः ॥८॥ पूर्व काव्यद्वयेन चित्तस्य प्रलोभनाय भाविप्रियालाभ- दर्शनपूर्वकं स्वकार्यमुद्दिशतिसंयोगेनानणुगुणमहाम्भोनिधीनां गुरूणां
प्राप्तौनत्यं जगति बहुधान्योपकारकनिष्ठम् । विज्ञानश्रीप्रभृतिललनास्तत्र यत्पयोदं
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥९॥ भ्रातः ! स्वान्त ! ब्रज निजगुरुन् सम्यगाराधय त्वं . तां च प्रीत्याऽनुनय दयितामाशया जीवतो मे । आशाबन्धः किल धृतिकरः प्रायशो दुःखितानां ____सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥ अथ सहायलाभेन चित्तमुत्साहयतिएते गङ्गासलिलविमलैः कीर्तिपूरैविवेकात्
सर्वोत्कृष्टादपि च गुरुभिर्यज्जिता विश्वपूज्यैः । १ अधिगमः प्राप्तिः । २ यद्वद् बलाकाः खे आकाशे मेघं सेवन्ते तथा ज्ञानश्रीप्रभृतिस्त्रियरतत्र पुया बहुधा अन्योपकाररतं भवन्तं त्वां सेवि. 'ष्यन्ते । अम्भोधिना च मेघ उन्नति प्राप्नोति, तथा बहुधान्यानां उपकार एकनिष्ठो भवतीत्यतस्तेन साम्यम् । ३ आशाबन्धो वियोगे दुःखितानां सद्यः पतनशीलं प्रणाय स्नेहयुक्त हृदयं रक्षतीत्यर्थयोजना ॥