________________
36
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-ર लाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसङ्घादिप्रयोजनम् तदेवाकार:=प्रत्याख्यानापवादो महत्तराकारस्तस्मादप्यन्यत्रेति योगः यच्चात्रैव महत्तराकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं च कारणमाचक्षते । अथैकाशनप्रत्याख्यानंतत्राष्टावाकाराः, यत्सूत्रम्"एगासणं पच्चक्खाइ, चउब्विहंपि आहारं असणं पाणं खाइमं साइमं, अनत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ" । [प्रत्याख्यान-आवश्यके हारिभद्रीवृत्तौ प. ८५३]
एकं सकृदशनं भोजनमेकं चाऽऽसनं पुताचालनतो यत्र तदेकाशनमेकासनं च, प्राकृते द्वयोरपि एगासणमितिरूपम्, तत्प्रत्याख्याति एकाशनप्रत्याख्यानं करोतीत्यर्थः, अत्राद्यावन्त्यौ च द्वावाकारौ (च) पूर्ववत्, 'सागारियागारेणं' सह अगारेण वर्त्तते इति सागारः, स एव सागारिको-गृहस्थः, स एवाकारः-प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसम्भवात्, अत एवोक्तम्"छक्कायदयावंतोऽवि, संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे, दुगुंछिए पिंडगहणे य ।।१।।" [ओघनिर्युक्तौ गा. ४४३]
ततश्च भुञानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञानस्यापि न भङ्गः गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति तदादिः सागारिकः ।
'आउंटणपसारणेणं' आउण्टणम्=आकुञ्चनं जवादेः सङ्कोचनम्, प्रसारणं च तस्यैवाऽऽकुञ्चितस्य ऋजुकरणम्, आकुञ्चने प्रसारणे चासहिष्णुतया क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र।
'गुरुअब्भुट्ठाणेणं' गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघूर्णकस्य वाभ्युत्थानं प्रतीत्यासनत्यजनं गुर्वभ्युत्थानम् ततोऽन्यत्र, अभ्युत्थानं चावश्यकर्त्तव्यत्वाद्भुञानेनापि कर्त्तव्यमिति न तत्र प्रत्याख्यानभङ्गः ।
‘पारिट्ठावणियागारेणं' साधोरेव, यथा परिष्ठापनं सर्वथा त्यजनं, प्रयोजनमस्य पारिष्ठापनिकमन्नम्, तदेवाकारः-पारिष्ठापनिकाकारस्ततोऽन्यत्र, तत्र हि त्यज्यमाने बहुदोषसम्भवादाश्रीयमाणे चागमिकन्यायेन गुणसम्भवाच्च तस्य गुर्वाज्ञया पुनर्भुञानस्य न भगः ।
“विहिगहिअं विहिभुत्तं, उद्धरिअं जं भवे असणमाई । तं गुरुणाणुन्नायं, कप्पइ आयंबिलाईणं ।।१।।" [आवश्यकनिर्युक्तौ १६११]