________________
४०
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | श्योs-१२ श्रावकस्त्वखण्डसूत्रत्वादुच्चरति 'वोसिरइ' इति अनेकासनमनेकाशनाद्याहारं च परिहरति ।
अथैकस्थानकम्-तत्र सप्ताकाराः, अथ सूत्रम्-‘एगट्ठाणं पच्चक्खाई' इत्यायेकासनवदाकुञ्चनप्रसारणाकारवर्जं एकमद्वितीयं स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानम्, यद्यथा भोजनकालेऽङ्गोपाङ्गं स्थापितं तस्मिंस्तथा स्थापित एव भोक्तव्यम्, मुखस्य पाणेश्चाशक्यपरिहारत्वाच्चलनं न प्रतिषिद्धम्, आकुञ्चनप्रसारणाकारवर्जनं च एकाशनतो भेदज्ञापनार्थम् अन्यथा एकाशनमेव स्यात् । .
अथाचामाम्लं-तत्राष्टावाकाराः, अथ सूत्रम्-"आयंबिलं पच्चक्खाइ, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ' । .
आचामोऽवश्रावणम्, अम्लं चतुर्थो रसः, त एव प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्माषसक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत्प्रत्याख्याति-आचामाम्लप्रत्याख्यानं करोतीत्यर्थः आद्यावन्त्याश्च त्रय आकाराः पूर्ववत् ।
'लेवालेवेणं' लेपो भोजनभाजनस्य विकृत्या तीमनादिना वा आचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेपम् तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः ।
'उक्खित्तविवेगेणं' शुष्कौदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योत्क्षिप्तस्योद्धृतस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः, उत्क्षिप्य त्याग इत्यर्थः, तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इति भावः यत्तूत्क्षेप्तुं न शक्यं तस्य भोजने भगः।
'गिहत्थसंसट्टेणं' गृहस्थस्य भक्तदायकस्य सम्बन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टम्, ततोऽन्यत्र, विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तमकल्प्यद्रव्यावयवमिश्रं भवति, न च तद्भुञानस्यापि भङ्गः, यद्यकल्प्यद्रव्यरसो बहु न ज्ञायते, 'वोसिरइ' इति अनाचामाम्लं चतुर्विधाहारं च व्युत्सृजति ।
अथाभक्तार्थप्रत्याख्यानं-तत्र पञ्चाकाराः, यत्सूत्रम्-'सूरे उग्गए अभत्तटुं पच्चक्खाइ, चउब्विहंपि आहारं असणं पाणं खाइमं साइम, अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ' । 'सूरे उग्गए' सूर्योद्गमादारभ्य, अनेन च भोजनानन्तरं प्रत्याख्यानस्य निषेध इत्याह भक्तेन