________________
3८
ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-૨
<
x
<
ل
س
<
lo vo w 5
० ० ० ० ०
.
ل
पौषः . ७ माघः फाल्गुनः ९ चैत्रः १० वैशाखः ११ २८ ८३ ४ ५ ज्येष्ठः १२ २ ४ । ६ २ १० ४
० २ - पौरुषीयन्त्रं पादोनपौरुषीयन्त्रं सार्द्धपौरुषीयन्त्रं पूर्वार्धयन्त्रं साम्प्रतं सूत्रशेषो व्याख्यायते-पौरुषीं प्रत्याख्याति पौरुषीप्रत्याख्यानं करोतीत्यर्थः, कथं? चतुर्विधमशनपानखाद्यस्वाद्यलक्षणम्, आहारम् अभ्यवहार्य, व्युत्सृजतीत्युत्तरेण योगः । अत्र च षडाकाराः, प्रथमो द्वौ पूर्ववत् अन्यत्र प्रच्छन्नकालात्, साधुवचनात्, दिग्मोहात्, सर्वसमाधिप्रत्ययाकाराच्च प्रच्छन्नता च कालस्य यदा मेघेन रजसा मिरिणा वान्तरितत्वात्सूरो न दृश्यते, तत्र पौरुषीं पूर्णा ज्ञात्वा भुजानस्यापूर्णायामपि तस्यां न भङ्गः, ज्ञात्वा त्वर्द्धभुक्तेनापि तथैव स्थातव्यम्, यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम्, न पूर्णेति ज्ञाते भुञानस्य भङ्ग एव दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति, तदा अपूर्णायामपि पौरुष्यां मोहाद्भुञानस्य न भगः, मोहविगमे तु पूर्ववदर्द्धभुक्तेनापि स्थातव्यम्, निरपेक्षतया भुञानस्य भङ्ग एवेति साधुवचनं 'उद्घाटापौरुषी'त्यादिकं विभ्रमकारणम्, तच्छ्रुत्वा भुञानस्य न भङ्गः, भुञ्जानेन तु ज्ञाते अन्येन वा कथिते पूर्ववत्तथैव स्थातव्यम्, तथा कृतपौरुषीप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया सञ्जातयोरातरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्ययः कारणं स एवाकारः प्रत्याख्यानापवादः. सर्वसमाधिप्रत्ययाकारः, समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, इत्यर्थः वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदा अपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्द्धभुक्ते त्वातुरस्य समाधौ मरणे वोत्पन्ने सति तथैव भोजनस्य त्यागः सार्द्धपौरुषीप्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतम् ।
अथ पूर्वार्द्धप्रत्याख्यानम्-“सूरे उग्गए पुरिमटुं पच्चक्खाइ, चउव्विहंपि आहारं असणं पाणं खाइमं साइमं, अनत्थणाभोगेणं सहसागारेणं पच्छनकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ" ।।
पूर्वं च तदर्धं च पूर्वार्द्धं दिनस्याद्यं प्रहरद्वयम्, पूर्वार्द्धं प्रत्याख्याति पूर्वार्द्धप्रत्याख्यानं करोति षडाकाराः पूर्ववत् ‘महत्तरागारेणं' इति, महत्तरं-प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षयाबृहत्तरनिर्जरा