________________
३४
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૧ર यतिदिनचर्यायां तु संकेतप्रत्याख्यानमपि चतुर्विधाहारं प्रोक्तम्, तथा च तद्वचः“संकेअपचक्खाणं, साहूणं रयणिभत्तवेरमणं । तहय नवकारसहिअं, निअमेण चउव्विहाहारं ।।१।।" [देवसूरिरचित यतिदिनचर्या गा. ५०] इति निर्विकृतिकाचामाम्लादौ कल्प्याकल्प्यविभागश्च स्वस्वसामाचारीतो ज्ञेयः, प्रत्याख्यानभेदतद्भगादयस्तु व्याख्यायन्त एवेत्यलं प्रसङ्गेन प्रकृतमनुसरामः । द्वारम् २ । प्रत्याख्यानं चापवादरूपाकारसहितं कर्त्तव्यमन्यथा तु भङ्गः स्यात्, स च दोषाय, यदाह“वयभङ्गे गुरु दोसो, थेवस्सवि पालणा गुणकरी उ ।
गुरुलाघवं च णेयं, धम्मंमि अओ अ आगारा ।।१।।” [पञ्चाशके ५।१२, पञ्चवस्तुके ५१२, प्रवचनसारो. २१६]
आक्रियन्ते विधीयन्ते प्रत्याख्यानभङ्गपरिहारार्थमित्याकाराः ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदर्श्यन्ते“दो चेव नमोक्कारे, आगारा छच्च पोरसीए उ । सत्तेव उ पुरिमड्ढे, एगासणगंमि अद्रुव ।।१।।" “सत्तेगट्ठाणस्स उ, अद्वैव य अंबिलंमि आगारा । पंचेव अभत्तट्टे, छ प्पाणे चरमि चत्तारि ।।२।।" "पंच य चउरोभिग्गही, निव्वीए अट्ठ नव य आगारा ।
अप्पाउरणे पंच य, हवंति सेसेसु चत्तारि ।।३।।" [आवश्यकनि. १५९९-१६०१, पञ्चाशके ५८१०, प्रवचनसारो. २०३-५] निर्विकृतौ अष्ट नव च कथं? “नवणीओगाहिमए, अद्दवदहिपिसिअघयगुडे चेव । नव आगारा एसिं, सेसदवाणं तु अद्वैव ।।४।।" [आवश्यकनि. १६०२, प्रवचनसारो. २०६, पञ्चाशक५।११]
अप्रावरणे चोलपट्टाकारः पञ्चमः विवरणं तु सूत्रव्याख्यासहगतमेवावसेयम्, द्वारम् ३ । साम्प्रतं सूत्रार्थों-“उग्गए सूरे नमुक्कारसहिअं पच्चक्खाइ, चउव्विहंपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं वोसिरइ" [प्रत्याख्यान आवश्यक सू. हारिभद्रीवृत्तिः प. ८४९] व्याख्या-उद्गते सूर्ये, सूर्योद्गमादारभ्येत्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं