________________
33
धर्मसंग्रह लाग-4/द्वितीय मधिजार | दो-१२ “पच्चक्खायापच्चक्खाबिंतियाण चउभंगा । जाणगजाणपएहिं, निष्फण्णा हुंति णायव्वा ।।१।।" [आवश्यकनिर्युक्तौ १६१३] इह किल स्वयं कृतप्रत्याख्यानः काले विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनूच्चरन् स्वयं जानन् ज्ञस्यैव गुरोः पार्श्वे प्रत्याख्यानं करोति तत्र ज्ञत्वे चतुर्भगी-द्वयोर्जत्वे प्रथमो भङ्गः शुद्धः १ । गुरोर्जत्वे शिष्यस्याज्ञत्वे द्वितीयः तत्र तत्कालं शिष्यं संक्षेपतः प्रबोध्य यदा गुरुः प्रत्याख्यानं कारयति तदाऽयमपि शुद्धः, अन्यथा त्वशुद्धः २ ज्ञोऽज्ञस्य पार्श्वे, गुर्वाद्यभावे बहुमानतो गुरुपितृव्यादिसकाशे करोति, अयमपि शुद्धः ३ द्वयोरज्ञत्वे त्वशुद्ध एव ४ अत्र च गुरोः स्वस्य वा ज्ञत्वं प्रत्याख्यानतदुच्चारस्थानभङ्गाकारशुद्धिसूत्रार्थफलकल्प्याकल्प्यविभागादिज्ञाने सत्येव भवति ।
तत्र प्रत्याख्यानोच्चारस्थानानि पञ्च-आद्यस्थाने नमस्कारसहितादिकालप्रत्याख्यानानि ५. सङ्केताख्यानि ८ च प्रायश्चतुर्विधाहाराणि १ द्वितीयस्थाने विकृतिनिर्विकृत्याचामाम्लोच्चारः, विकृतिप्रत्याख्यानं चास्वीकृतविकृतिनैयत्यानामपि प्रायेणाभक्ष्यविकृतिचतुष्कत्यागात् सर्वेषां स्यात् २ तृतीये एकद्व्यासनैकस्थाननियमो द्वित्रिचतुर्विधाहारः ३ चतुर्थस्थाने पाणस्सेत्यादि ४ पञ्चमस्थाने देशावकाशिकव्रतं प्राग्गृहीतसचित्तादिचतुर्दशनियमसंक्षेपरूपमुच्चार्यम् ५ एवमुपवासे चत्वारि प्रथमेऽभक्तार्थकरणम् १, द्वितीये पानाहारप्रत्याख्यानम् २, तृतीये 'पाणस्से'त्यादि ३, चतुर्थे देशावकाशिकमिति ४ उक्तं च“पढमे ठाणे तेरस, बीए तिन्नि उ तिगा य तइअंमि । ------ पाणस्स चउत्थंमि, देसवगासाइ पंचमए ।।१।।" [प्रत्याख्यानभाष्ये ६]
अत्र चोपवासाऽऽचामाम्लनिर्विकृत्यादीनि पौरुष्यादीनि च प्रायस्त्रिचतुर्विधाहाराणि, अपवादात्तु निर्विकृत्यादि पौरुष्यादि च द्विविधाहारमपि नमस्कारसहितं तु चतुर्विधाहारमेव स्यादिति संप्रदायः । यत उक्तं"चउहाहारं तु नमो, रत्तिपि मुणीण सेस दुतिचउहा ।” [प्रत्याख्यानभाष्ये १२] तथा "साहूणं रयणीए, नवकारसहिअ चउव्विहाहारं । भवचरिमं उववासो, अंबिल तिहचउव्विहाहारं ।।१।।" "सेसा पच्चक्खाणा, दुह तिह चउहावि हुंति आहारे । इअ पच्चक्खाणेसुं, आहारविगप्पणा नेया ।।२।।"