________________
૩૨
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | दो-५२ सहाकारैर्महत्तराकाराद्यैर्यत् वर्त्तते तत्साकारम् ५ । निर्गतं महत्तराद्याकारानिराकारं, निराकारेप्यनाभोगसहसाकाररूपाकारद्वयस्यावश्यम्भावान्महत्तराकाराद्याकारवर्जनाश्रयणम् ६ । दत्तिकवलादीयत्तया परिमाणकृतम् ७ । . सर्वाशनपानत्यागान्निरवशेषम् ८ ।
अङ्गुष्ठमुष्टिग्रन्थ्यादिचिह्नोपलक्षितं सङ्केतम्, तच्च श्रावकः पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् ‘भोजनप्राप्तेः प्राक् प्रत्याख्यानरहितो मा भूवमि'त्यगुष्ठादिकं सङ्केतं करोति, ‘यावदगुष्ठं मुष्टिं ग्रन्थिं (वा) न मुञ्चामि, गृहं वा न प्रविशामि, स्वेदबिन्दवो यावन्न शुष्यन्ति, एतावन्तो वा उच्छ्वासा यावन्न भवन्ति, जलादिमञ्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावन्न निर्वाति, तावन्न भुञ्ज इति, यदाहुः“अंगुट्ठमुट्ठिगंठीघरसेऊसासथिबुगजोइक्खे - एअं संकेअ भणिअं, धीरेहिं अनंतनाणीहिं ।।९।।" [आवश्यकनिर्युक्तौ १५७८] अद्धा कालस्तद्विषयं प्रत्याख्यानं, तच्च दशविधं, यदाहुः"नवकारपोरसीए, पुरिमड्डेगासणेगठाणे अ ।
आयंबिलअभत्तट्टे, चरमे अ अभिग्गहे विगई ।।१०।।” [आवश्यकनि. १५९७, प्रवचनसारोद्धारे गा. २०२]
नन्वेकाशनादिप्रत्याख्यानं कथमद्धाप्रत्याख्यानं? न हि तत्र कालनियमोऽस्ति, सत्यम्, अद्धाप्रत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यद्धाप्रत्याख्यानत्वेनोच्यन्ते, यतः पञ्चाशकवृत्तौ
“एकाशनाऽऽचाम्लादिप्रत्याख्यानं च यद्यपि परिमाणकृतं,
तथाऽप्यद्धाप्रत्याख्यानपूर्वकत्वेनाद्धाप्रत्याख्यानमध्य एव गण्यते” । [ ] इति सर्वोत्तरगुणप्रत्याख्याने च सकेतप्रत्याख्यानमद्धाप्रत्याख्यानं चेति द्विविधं प्रतिदिनोपयोगि ज्ञेयम् द्वारम् १ भङ्गकास्तु सप्तचत्वारिंशं शतं भवन्ति, ते च पूर्वं व्रताधिकारे उक्ताः, तद्ज्ञानपूर्वं च प्रत्याख्यानं शुद्धम्, यतः “सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं ।
सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला उ ।।१।।" [श्रावकव्रतभङ्ग प्र. ८, प्रवचनसारोद्धारे १३३८] इति ।
यद्वा इत्थम्