________________
धर्मसंग्रह भाग-4 / द्वितीय अधिभार | Rोs-५२ “प्रत्याख्यानानि १ तद्भङ्गा २ ऽऽकार ३ सूत्रा ४ ऽर्थ ५ शुद्धयः ६ । प्रत्याख्यानफलं ७ चाथ, किञ्चिदेवोच्यतेऽधुना ।।१।।"
तत्र प्रत्याख्यानं 'ख्या(ख्याङ्) प्रकथने' इत्यस्य प्रत्यापूर्वस्य, ल्युडन्तस्य रूपम्, प्रतीति प्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम्, कृत्यल्युटो बहुलमितिवचनादन्यथाप्यदोषः अथवा प्रत्याख्यायते निषिध्यतेऽनेन मनोवाक्कायजालेन किञ्चिदनिष्टमिति प्रत्याख्यानम्, क्रियाक्रियावतोः कथञ्चिदभेदात्प्रत्याख्यानक्रियैव प्रत्याख्यानम्, प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानम् ।
तच्च द्वेधा-मूलगुणरूपम्, उत्तरगुणरूपं च एकैकमपि सर्वदेशभेदात् द्विविधम्, सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्च महाव्रतानि देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि सर्वोत्तरगुणप्रत्याख्यानं च यतीनामनेकधा, यथा"पिंडस्स जा विसोही, समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहाविअ, उत्तरगुणमो विआणाहि ।।१।।"
श्राद्धानां देशोत्तरगुणप्रत्याख्यानं सप्त शिक्षाव्रतानि, तत्र मूलगुणानां प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, उत्तरगुणानां तु पिण्डविशुद्ध्यादीनां दिग्वतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात्' इत्यावश्यकवृत्तियोगशास्त्रवृत्त्योः [आवश्यकहारिभद्र्या प. ८०३ योगशास्त्रवृत्तौ प.७००] उभयोरपि,
सर्वोत्तरगुणप्रत्याख्यानं यथायोग्यमनागतादि दशधा, यथा“अणागयमइक्कंतं, कोडिसहिअं निअंटिअं चेव । सागारमणागारं, परिमाणकडं निरवसेसं ।।१।। संकेअं चेव अद्धाए, पच्चक्खाणं तु दसविहं होइ । सयमेवणुपालणया, दाणुवएसे जह समाही ।।२।।" [आवश्यकनिर्युक्तौ १५६४-१५६५] तत्र पर्युषणादौ ग्लानवैयावृत्त्यादिकारणसद्भावे तदर्वागपि यदष्टमादि क्रियते तदनागतम् १ । एवमतिक्रान्ते पर्वणि यत्क्रियते तदतिक्रान्तं २ ।
एकस्य निष्ठाकालेऽन्यस्य च ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलनात्कोटिसहितम्, षष्ठाष्टमाऽऽचामाम्लनिर्विकृतिकैकासनादिषु सर्वेषु सदृशेषु चतुर्थादिषु च विसदृशेष्वपि भाव्यम् ३ ।
अमुष्मिन् मासे दिवसे वा यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियन्त्रितम्, एतच्चतुर्दशपूर्विषु जिनकल्पेन सह व्यवच्छिन्नम् ४ ।