________________
30
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | Als-१२ व्याख्या-'जंकिंचि' यत्किञ्चित्सामान्यतो निरवशेषं वा, 'अपत्तिअं' आर्षत्वादप्रीतिकम् अप्रीतिमात्रम्, 'परपत्तिअं' प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहेतुकमुपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यम्, युष्मद्विषये मम जातम्, युष्माभिर्वा मम जनितमिति वाक्यशेषः तस्स मिच्छा मीत्युत्तरेण सम्बन्धः तथा 'भत्ते' भक्ते भोजनविषये, 'पाणे' पानविषये 'विणए' विनये अभ्युत्थानादिरूपे, 'वेयावच्चे' वैयावृत्त्ये वैयापृत्ये वा औषधपथ्यादिना अवष्टम्भरूपे 'आलावे' आलापे सकृज्जल्पनरूपे 'संलापे' मिथःकथारूपे, 'उच्चासणे' गुरोरासनादुच्चैरासने, 'समासणे' गुर्वासनेन तुल्ये आसने, 'अंतरभासाए' अन्तर्भाषायां गुरोर्भाषमाणस्य विचालभाषणरूपायाम्, 'उवरिभासाए' उपरिभाषायां गुरोर्भाषणानन्तरमेव विशेषभाषणरूपायाम्, एषु भक्तादिषु 'जंकिंचि' यत्किञ्चित् समस्तं सामान्यतो वा 'मज्झ' मम 'विणयपरिहीणं' विनयपरिहीनं शिक्षावियुक्तं संजातमितिशेषः विनयपरिहीनस्यैव द्वैविध्यमाह 'सुहमं वा बायरं वा' सूक्ष्ममल्पप्रायश्चित्तविशोध्यम्, बादरं बृहत्प्रायश्चित्तविशोध्यम्, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयत्वतुल्यतोद्भावनार्थो, 'तुब्भे जाणह' इति यूयं जानीथ सकलभाववेदकत्वात्, 'अहं न याणामि' अहं पुनर्न जानामि मूढत्वात् तथा यूयं न जानीथ प्रच्छन्नकृतत्वादिना, अहं जानामि स्वयंकृतत्वात्, तथा यूयं न जानीथ परेण कृतत्वादिना, अहं न जानामि विस्मरणादिना, तथा यूयमपि जानीथ अहमपि जानामि द्वयोः प्रत्यक्षत्वात्, एतदपि द्रष्टव्यम् 'तस्स' तस्य षष्ठी-सप्तम्योरभेदात्तस्मिन्नप्रीतिकविषये विनयपरीहीणविषये च 'मिच्छामि दुक्कडं' मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति पारिभाषिकं वाक्यं प्रयच्छामीति शेषः, अथवा तस्येति विभक्तिपरिणामात् तदप्रीतिकं विनयपरिहीनं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्त्तते, मे मम, तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमणमिति क्षमयित्वा च पुनर्वन्दनकं ददाति वन्दनपूर्वके चालोचनक्षमणे इतिकृत्वा वन्दनकानन्तरं ते व्याख्याते, अन्यथा च प्रतिक्रमणे तयोरवसर इति द्वादशावर्त्तवन्दनविधिः अथ च गुरोर्व्याक्षिप्तत्वादिना बृहद्वन्दनकायोगे छोभवन्दनेनापि गुरून्वन्दते वन्दनकस्य च फलं कर्मनिर्जरा, यदाहुः
“वंदएणं भंते ! जीवे किं अज्जिणइ? गोअमा! अट्ठकम्मपगडीओ निविडबंधणबद्धाओ सिढिलबंधणबद्धाओ करेइ, चिरकालठिइआओ अप्पकालठिइआओ करेइ, तिव्वाणुभावाओ मंदाणुभावाओ करेइ, बहुपएसग्गाओ अप्पपएसग्गाओ करेइ, अणाइअं अणवदग्गं संसारकंतारं नो परिअट्टइ" ।
तथा “वंदएणं भंते! जीवे किं अज्जिणइ? गोयमा! वंदएणं नीआगोअं कम्मं खवेइ, उच्चागो कम्म निबंधइ, सोहग्गं च अप्पडिहयं आणाफलं निव्वत्तेइत्ति” [उत्तराध्ययने ३०-१०] ।
एवं बृहद्वन्दनेन गुरून्वन्दित्वा तन्मुखेन स्वशक्त्यनुरूपं प्रत्याख्यानं करोति, अत्र