________________
૨૯
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | RAIs-१२ सर्वातिचारविशुद्ध्यर्थं सूत्रमिदं पठति 'सव्वस्सवि देवसिय दुच्चिंतिय दुब्भासिय दुच्चिट्ठिय इच्छाकारेण संदिसह' सर्वाण्यपि लुप्तषष्ठीकानि पदानि ।
ततोऽयमर्थः-सर्वस्यापि दैवसिकस्य अणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्यातिचारस्येति गम्यते, पुनः कीदृशस्य ? 'दुश्चिन्तितस्य' दुष्टमार्त्तरौद्रध्यानतया चिन्तितं यत्र स तथा, तस्य, दुश्चिन्तितोद्भवस्येत्यर्थः, अनेन मानसमतीचारमाह दुष्टं सावधवाग्रूपं भाषितं यत्र तत्तथा, तस्य, दुर्भाषितोद्भवस्येत्यर्थः, अनेन वाचिकं सूचयति दुष्टं प्रतिषिद्धं धावनवल्गनादि कायक्रियारूपं चेष्टितं यत्र तत्तथा, तस्य, दुश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह अस्यातिचारस्य किमित्याह'इच्छाकारेण संदिसह' इति, आत्मीयेच्छया मम प्रतिक्रमणाज्ञां प्रयच्छत इत्युक्त्वा तूष्णीको गुरुमुखं प्रेक्षमाण आस्ते ।
ततो गुरुराह-'पडिक्कमह' प्रतिक्रामत, शिष्यः प्राह-'इच्छं' इच्छाम्येतद्भगवद्वचः, 'तस्स' तस्य दैवसिकातिचारस्य, 'मिच्छा मि दुक्कडं' आत्मीयदुष्कृतं मिथ्येति, जुगुप्से इत्यर्थः तथा द्वितीयच्छ(व)न्दनकेऽवग्रहान्तःस्थित एव विनेयोऽर्द्धावनतकायः स्वापराधक्षामणां चिकीर्षुर्गुरुं प्रतीदमाह'इच्छाकारेण सन्दिसह' इति इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना, संदिशत आज्ञां प्रयच्छत यूयम् आज्ञादानस्यैव विषयमुपदर्शयनिदमाह
'अब्भुट्टिओऽम्हि अब्जिंतरदेवसिअं खामेमि' अभ्युत्थितोऽस्मि-प्रारब्धोऽस्मि अहम्, अनेनान्याभिलाषमात्रस्य व्यपोहेन क्षमणक्रियायाः प्रारम्भमाह, 'अभिंतरदेवसियं' इति दिवसाभ्यन्तरसम्भवमतिचारमिति गम्यते, क्षमयामि-मर्षयामि, इत्येका वाचना ।
अन्ये त्वेवं पठन्ति 'इच्छामि खमासमणो! अभुट्ठिओमि अभिंतरदेवसि खामेळ' इति इच्छामि अभिलषामि क्षमयितुमितियोगः हे क्षमाश्रमण! न केवलमिच्छामि, किंतु अब्भुट्ठिओऽम्हीत्यादि पूर्ववदेव ।
एवं स्वाभिप्रायं प्रकाश्य तूष्णीमास्ते यावद्गुरुराह-'खामेह' इति क्षमयस्वेत्यर्थः ततः सद्गुरुवचनं बहुमन्यमानः प्राह-'इच्छं खामेमि' इति, इच्छं-इच्छामि भगवदाज्ञाम्, खामेमि क्षमयामि च स्वापराधम्, अनेन क्षमणक्रियायाः प्रारम्भमाह ततो विधिवत्पञ्चभिरगैः स्पृष्टधरणीतलो मुखवस्त्रिकया स्थगितवदनदेश इदमाह
'जंकिंचि अपत्ति परपत्तिअं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं'