________________
૨૮
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | Cls-१२ उत्सूत्रः, सूत्रमतिक्रम्य कृत इत्यर्थ 'उम्मग्गो' मार्ग:-क्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः, क्षायोपशमिकभावत्यागेन औदयिकभावसङ्क्रमः कृत इत्यर्थः । 'अकप्पो' कल्पो-न्यायो विधिराचारश्चरणकरणव्यापार इतियावत्, न कल्पोऽकल्पः अतद्रूप इत्यर्थः । अकरणिज्जो करणीयः सामान्येन कर्त्तव्यो न करणीयोऽकरणीयः, हेतुहेतुमद्भावश्चात्र यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादिः, उक्तः तावत्कायिको वाचिकश्च अधुना मानसिकमाह-'दुज्झाओ' दुष्टो ध्यातो दुर्ध्यात एकाग्रचित्ततया आर्तरौद्रलक्षणः 'दुन्विचिंतिओ' दुष्टो विचिन्तितो दुर्विचिन्तितः अशुभ एव चलचित्ततया “जं थिरमज्झवसाणं, तं झाणं जं चलं तयं चित्तं" [ध्यानशतके गा. २] इतिवचनात् ।
यत एवेत्थंभूतस्तत एव 'अणायारो' आचरणीयः श्रावकाणामाचारः, न आचारो अनाचारः यत एव नाचरणीयः अत एव 'अणिच्छिअव्वो' अनेष्टव्यः मनागपि मनसाऽपि न एष्टव्यः, आस्तां तावत्कर्त्तव्यः, यत एवेत्थंभूतः अत एव 'असावगपाउग्गो' अश्रावकप्रायोग्यः ‘अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च समाचारी शृणोति' इति श्रावकः, तस्य प्रायोग्य=उचितः श्रावकप्रायोग्यः न तथा श्रावकानुचित इत्यर्थः ।
अयं चातिचारः क्व विषये इत्याह-'णाणे दंसणे चरित्ताचरित्ते' इति ज्ञानविषये दर्शनविषये स्थूलसावद्ययोगनिवृत्तिभावाच्चारित्रं च सूक्ष्मसावद्ययोगनिवृत्त्यभावादचारित्रं च चारित्राचारित्रं तस्मिन् देशविरतिविषय इत्यर्थः ।
अधुना भेदेन व्याचष्टे 'सुए' श्रुतविषये श्रुतग्रहणं मत्यादिज्ञानोपलक्षणम्, तत्र विपरीतप्ररूपणा अकालस्वाध्यायश्चातिचारः 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिकदेशविरतिसामायिकयोर्ग्रहणम् तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, देशविरतिसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीणं' तिसृणां गुप्तीनाम्, 'यत्खण्डित'मित्यादिना सर्वत्र योगः मनोवाक्कायः गोपनात्मिकास्तिस्रो गुप्तयस्तासां अश्रद्धानविपरीतप्ररूपणाभ्यां खण्डना विराधना च 'चतुर्णां' क्रोधमानमायालोभलक्षणानां 'कषायाणां' प्रतिषिद्धानां करणेनाश्रद्धानविपरीतप्ररूपणाभ्यां च 'पञ्चानामणुव्रतानां' 'त्रयाणां गुणव्रतानां' 'चतुर्णां शिक्षाव्रतानां' उक्तस्वरूपाणाम्, अनुव्रतादिमीलनेन 'द्वादशविधस्य श्रावकधर्मस्य' यत्खण्डितमित्यादिना सर्वत्र योगः, देशतो भग्नम्, यद्विराधितं सुतरां भग्नम्, न पुनरेकान्ततोऽभावमापादितम्, 'तस्स मिच्छामि दुक्कडं' तस्य दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य, तथा गुप्तीनां कषायाणां द्वादशविधश्रावकधर्मस्य च यत्खण्डनं विराधनं चातिचाररूपं तस्य, मिथ्येति प्रतिक्रामामि, दुष्कृतमेतदकर्त्तव्यमिदं ममेत्यर्थः ।
अत्रान्तरे विनेयः पुनरप्यर्दावनतकायः प्रवर्द्धमानसंवेगो मायामदविप्रमुक्तः, आत्मनः