________________
૨૭
धर्मसंग्रह भाग-4 / द्वितीय अधिभार | Rels-१२
खामित्ता विणएणं, तिग्गुत्तो तेण पुणरवि तहेव । उग्गहजायणपविसणदुओणयं दोपवेसं च ।।२७ ।। पढमे छच्चावत्ता बीअपवेसंमि हुँति छच्चेव । ते अ अहोइच्चाई, अंकरेणं पउत्तव्वा ।।२८।। पढमपवेसे सिरनामणं दुहा बीअए अ तह चेव । तेणेअ चउसिरं तं, भणियमिणं एगनिक्खमणं ।।२९।। एवमहाजाएगं, तिगुत्तिसहिअंच हुंति चत्तारि । सेसेसुं खित्तेसुं, पणवीसावस्सया हुति।।३०।।" [बृहद्वन्दनकभाष्य गा-३-३२] इह यतिरेव वन्दनककर्ता उक्तो न श्रावकस्तथापि यतेः कर्तुर्भणनात् श्रावकोऽपि कर्ता विज्ञेयः प्रायेण यतिक्रियानुसारेणैव श्रावकक्रियाप्रवृत्तेः श्रूयते च कृष्णवासुदेवेनाष्टादशानां यतिसहस्राणां द्वादशावर्त्तवन्दनमदायीति ।
एवं वन्दनकं दत्त्वा अवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किञ्चिदवनतकायो गुरुं प्रतीदमाह-'इच्छाकारेण संदिसह भगवन्! देवसिअं आलोएमि'
इच्छाकारेण-निजेच्छया, संदिशत-आज्ञां ददत, दैवसिकं-दिवसभवमतीचारमिति गम्यम्, एवं रात्रिकपाक्षिकादिकमपि द्रष्टव्यम्, आलोचयामि-मर्यादया सामस्त्येन वा प्रकाशयामि इह च देवसिकादीनामयं कालनियमः-यथा दैवसिकं मध्याह्नादारभ्य निशीथं यावद् भवति, रात्रिकं निशीथादारभ्य मध्याह्न यावद् भवति, पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते भवन्ति ।
अत्रान्तरे 'आलोअह' इति गुरुवचनमाकर्ण्य एतदेव शिष्यः समर्थयन्नाह-'इच्छं आलोएमि' इच्छामि अभ्युपगच्छामि गुरुवचः, आलोचयामि-पूर्वमभ्युपगतमर्थं क्रियया प्रकाशयामीति । इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारेणाह_ 'जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छिअव्वो असावगपाउग्गो, नाणे दंसणे चरित्ताचरित्ते, सुए सामाइए तिण्हं गुत्तीणं, चउण्हं कसायाणं, पंचण्हमणुव्वयाणं, तिण्हं गुणव्वयाणं, चउण्हं सिक्खावयाणं, बारसविहस्स सावगधम्मस जं खंडिअं जं विराहि तस्स मिच्छामि दुक्कडं।
व्याख्या-'यो' 'मया' दिवसे भवो दैवसिकः ‘अतिचारो'ऽतिक्रमः ‘कृतो' निवर्तितः, स पुनरतिचार उपाधिभेदेनानेकधा भवति, अत एवाह-'काइओ' कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः एवं 'वाइओ' वाक्प्रयोजनमस्य वाचिकः एवं मनः प्रयोजनमस्येति मानसिकः 'उस्सुत्तो' सूत्रादुत्क्रान्त