________________
धर्मसंग्रह भाग-4 / द्वितीय अधिकार / श्लोड-५२
૨૧
गुरुस्तदा वन्दनमनुज्ञातुकामश्छन्देनेति वदति, छन्देन = अभिप्रायेण, ममाप्येतदभिप्रेतमित्यर्थः ततो विनेयोऽवग्रहाद् बहिःस्थित एवेदमाह - 'अनुजानीत' - अनुमन्यध्वं, 'मे' इत्यात्मनिर्देशे, किम् ? मितश्चासाववग्रहश्च मितावग्रहः, इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्रमवग्रहस्तस्मिन्नाचार्यानुज्ञां विना प्रवेष्टुं न कल्पते, यदाह
“आयप्पमाणमित्तो, चउद्दिसि होइ उग्गहो गुरुणो ।
अणगुणायस्स सया, न कप्पए तत्थ पविसेउं । । १ । । "
इति अनुज्ञापनं द्वितीयं स्थानम्, ततो गुरुर्भणति 'अनुजानामि' ततः शिष्यो भुवं प्रमृज्य नैषेधिकीं कुर्वन् गुर्ववग्रहं प्रविशति 'निसीहीति' निषिद्धसर्वाशुभव्यापारः सन् प्रविशाम्यहमित्यर्थः ततः सन्दंशप्रमार्जनपूर्वकमुपविशति गुरुपादान्तिके च भूमौ निधाय रजोहरणं तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवस्त्रिका वामकर्णादारभ्य वामहस्तेन दक्षिणकर्णं यावत् ललाटमविच्छिन्नं च वामजानुं त्रिः प्रमृज्य मुखवस्त्रिकां वामजानूपरि स्थापयति ततोऽकारोच्चारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोच्चारणसमकालं ललाटं स्पृशति, ततः काकारोच्चारणसमकालं रजोहरणं स्पृष्ट्वा यंकारोच्चारणसमकालं ललाटं स्पृशति पुनश्च काकारोच्चारणसमकालं रजोहरणं स्पृष्ट्वा यकारोच्चारणसमकालं ललाटं स्पृशति, ततः 'संफासं' इति वदन् शिरसा पाणिभ्यां च रजोहरणं स्पृशति ततः शिरसि बद्धाञ्जलिः 'खमणिज्जो भे किलामो' इत्यारभ्य 'दिवसो वइक्कंतो' इति यावत् गुरुमुखे निविष्टदृष्टिः पठति अधस्तात्कायोऽधः कायः-पादलक्षणस्तं प्रति, कायेन निजदेहेन हस्तललाटलक्षणेन, संस्पर्श=आमर्शस्तं 'करोमीति गम्यते एतदपि 'ममानुजानीध्वमित्यनेन योगः, आचार्यमननुज्ञाप्य हि संस्पर्शो न कार्यः ।
ततो वक्ति 'खमणिज्जो' क्षमणीयः सोढव्यः, 'भे' भवद्भिः 'किलामो' क्लमः संस्पर्शे सति देहग्लानिरूपः तथा 'अप्पकिलंताणं' अल्पं = स्तोकं क्लान्तं = क्लमो येषां ते अल्पक्लान्तास्तेषामल्पवेदनानामित्यर्थः 'बहुसुभेण' बहु च तच्छुभं च बहुशुभम् तेन बहुसुखेनेत्यर्थः 'भे' भवतां 'दिवसो वइक्कतो ? ' दिवसो व्यतिक्रान्तः ? अत्र दिवसग्रहणं रात्रिपक्षादीनामुपलक्षणं द्रष्टव्यमिति,
एवं योजितकरसम्पुटं गुरोः प्रतिवचनमीक्षमाणं शिष्यं प्रत्याह गुरुः - 'तहत्ति' तथेति, प्रतिश्रवणेऽत्र तथाकारः, यथा भवान् ब्रवीति तथेत्यर्थः, एवं तावदाचार्यशरीरवार्त्ता पृष्टा
अथ तपोनियमविषयां वार्तां पृच्छन्नाह - ' जत्ता भे' 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पृष्ट्वा रजोहरणललाटयोरन्तराले 'त्ता' इति स्वरितेन स्वरेणोच्चार्य, उदात्तस्वरेण 'भे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिर्ललाटं स्पृशति, यात्रासंयमतपोनियमादिलक्षणा क्षायिक