________________
૨૨
धर्मग्र लाग-4 / द्वितीय अधिभार / PRTs-१२ क्षायोपशमिकौपशमिकभावलक्षणा भवतां 'उत्सर्पती'ति गम्यते इति यात्रापृच्छारूपं तुर्यस्थानम् । अत्रान्तरे गुरोः प्रतिवचनं 'तुब्भंपि वट्टए' मम तावदुत्सर्पति भवतोऽप्युत्सर्पति? ___ अधुना नियन्त्रणीयपदार्थविषयां वार्ता पृच्छन् पुनरप्याह विनेयः-'जवणिज्जं च भे,' 'ज' इत्यनुदात्तस्वरेण रजोहरणं स्पृष्ट्वा, 'व' इति स्वरितस्वरेण रजोहरणललाटयोरन्तराले उच्चार्य, "णि'शब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्द्धसमाप्तत्वात् प्रश्नस्य ततो 'ज्जं' इत्यनुदात्तस्वरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरणललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य, 'भे' इत्युदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृष्ट्वा प्रतिवचनं शुश्रूषमाणस्तथैवाऽऽस्ते 'जवणिज्जं च' यापनीयम् इन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं च 'भे' भवतां शरीरमिति गम्यम् । एवं परया भक्त्या पृच्छता विनेयेन विनयः कृतो भवतीति यापनाप्रच्छनं पञ्चमं स्थानम् । ___ अत्रान्तरे गुरुराह-'एवं' आमं, 'यापनीयं च मे' इत्यर्थः इदानीमपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तहस्तमस्तको विनेय इदमाह-'खामेमि खमासमणो! देवसिअं वइक्कम' क्षमयामि क्षमाश्रमण! दिवसे भवो दैवसिकस्तं व्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधमित्यपराधक्षमणारूपं षष्ठं स्थानम् ।
अत्रान्तरे च गुरुर्वदति 'अहमवि खामेमि' अहमपि क्षमयामि देवसिकं व्यतिक्रम प्रमादोद्भवमविधिशिक्षणादिकम् ।
ततो विनेयः प्रणमन् क्षमयित्वा 'आवस्सियाए इत्यादि जो मे अइयारो कओ' इत्यन्तं स्वकीयातिचारनिवेदनपरमालोचनार्हप्रायश्चित्तसूचकं सूत्रं 'तस्स खमासमणो! पडिक्कमामि' इत्यादिकं च प्रतिक्रमणार्हप्रायश्चित्ताभिधायकं च पुनरकरणेनाभ्युत्थित आत्मानं शोधयिष्यामीति बुद्ध्या अवग्रहानिःसृत्य पठति, अवश्यं कर्त्तव्येषु चरणकरणेषु भवा क्रिया तया आसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्मात्प्रतिक्रमामि निवर्ते, इत्थं सामान्येनाभिधाय विशेषेणाभिधत्ते-क्षमाश्रमणानां सम्बन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना तया किंविशिष्टया? 'त्रयस्त्रिंशदन्यतरया,' त्रयस्त्रिंशत्स
ङ्ख्यानामाशातनानामन्यतरया कयाचिद्, उपलक्षणत्वाद् द्वाभ्यां तिसृभिरपि, यतो दिवसमध्ये सर्वा अपि संभवन्ति ।
ताश्चेमाः-गुरोः पुरतो गमनं शिष्यस्य निष्कारणं विनयभङ्गहेतुत्वादाशातना, मार्गदर्शनादिकारणे तु न दोषः १ गुरोः पार्वाभ्यामपि गमनम् २, पृष्ठतोऽप्यासनगमनम्, निःश्वासक्षुतश्लेष्मपातादिदोषप्रसङ्गात् ततश्च यावता भूभागेन गच्छता आशातना न भवति तावता गन्तव्यम् ३ एवं पुरतः