________________
२०
ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-૧ર दोषाः ६"माणो अविणय खिसा, नीयागोयं अबोहि भववुड्डी । अनमंते छद्दोसा, एवं अडनउयसयमिहयं ।।१।।" अथ सूत्रम्-“इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहिआए, अणुजाणह मे मिउग्गहं, णिसीहि । अहोकायं कायसंफासं खमणिज्जो भे किलामो, अण्पकिलंताणं बहुसुभेण भे दिवसो वइक्कंतो? जत्ता भे? जवणिज्जं च भे? खामेमि खमासमणो देवसिअं वइक्कम, आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयराए जंकिंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" ।।
अत्र हि शिष्यो गुरुवन्दनेन वन्दितुकामः पूर्वं लघुवन्दनपुरस्सरं सन्दंशको प्रमृज्योपविष्ट एव मुखवस्त्रिकां पञ्चविंशतिकृत्वः प्रत्युपेक्षते, तया च शरीरं पञ्चविंशतिकृत्व एव प्रमृज्य परेण विनयेन मनोवाक्कायसंशुद्धो गुरोः सकाशादात्मप्रमाणात्क्षेत्राद् बहिःस्थितोऽधिज्यचापवदवनतकायः करद्वयगृहीतरजोहरणादिर्वन्दनायोद्यत एवमाह_ 'इच्छामि' अभिलषामि, अनेन बलाभियोगः परिहतः, 'क्षमाश्रमण' 'क्षमूष सहने' [पाणिनीय धातुपाठे ४४२] इत्यस्यार्षत्त्वादङि क्षमा, सहनमित्यर्थः, श्राम्यति संसारविषये खिन्नो भवति तपस्यतीति वा नन्द्यादित्वात्कर्त्तर्यने श्रमणः, क्षमाप्रधानः श्रमणः क्षमाश्रमणस्तस्य सम्बोधने प्राकृते 'खमासमणो' 'डो दीर्घा वा' [सिद्धहेम ८-३-३८] इति आमन्त्र्ये से?कारः, क्षमाग्रहणेन मार्दवार्जवादयो गुणाः सूचिताः ततश्च 'क्षमादिगुणोपलक्षितो यतिः प्रधानः,' अनेन वन्दनार्हत्वं तस्यैव सूचितम्, किं कर्तुम्? वन्दितुं नमस्कर्तुम्, भवन्तमिति गम्यते, कया? यापनीयया नैषेधिक्या, अत्र नैषेधिक्येतिविशेष्यम्, यापनीययेति विशेषणम्, 'षिधु गत्याम्' [हैम धा. पा. १।३२०] इत्यस्य निपूर्वस्य घञि निषेधः प्राणातिपातादिनिवृत्तिः, स प्रयोजनमस्या नैषेधिकी-तनुः, तया प्राणातिपातादि-निवृत्तया तन्वा इत्यर्थः । कीदृश्या? यापनीयया, 'यांक प्रापणे' [धा. पा. २-४, १०६२] अस्य णिगन्तस्य प्वागमे यापयतीति यापनीया, प्रवचनीयादित्वात्कर्तर्यनीयः, तया, शक्तिसमन्वितयेत्यर्थः ।। ___ अयं समुदायार्थः-हे श्रमणगुणयुक्त! अहं शक्तिसमन्वितशरीरः प्रतिषिद्धपापक्रियश्च त्वां वन्दितुमिच्छामि, अत्र विश्रामः इदं चेच्छानिवेदनं प्रथम स्थानम् ।
अत्र चान्तरे गुरुर्यदि व्याक्षेपबाधादियुक्तस्तदा भणति-'प्रतीक्षस्वेति' तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति, अन्यथा तु नेति चूर्णिकारमतं वृत्तिकारस्य तु मतं त्रिविधेनेति भणति मनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः ततः शिष्यः संक्षेपवन्दनं करोति व्याक्षेपादिरहितश्चेद्