________________
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૧૨
कारणानि ८“पडिक्कमणे १ सज्झाए २ काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोयण ६ संवरणे ७, उत्तमढे य ८ वंदणयं ।।१।।" [आवश्यकनिर्युक्तौ १२००] . सर्वमप्यनुष्ठानं प्रथम साधूनुद्दिश्य सूत्रेऽभिहितम्, श्राद्धस्य तु यथायोग्यमायोजनीयमिति साधूनां वन्दनदानेऽष्टौ कारणानि, तत्र प्रतिक्रमणे चत्वारि वन्दनकानि द्विकद्विकरूपाणि स्युः, तानि च सामान्यत एकमेव १ । स्वाध्याये वाचनादिविषये त्रीणि
"सज्झाए वंदित्ता पट्ठवेइ पढमं १ पट्टविए पवेइअंतस्स बितिअं २ पच्छा उद्दिटुं समुद्दिटुं पढइ, उद्देससमुद्देसवंदणाणमिहेवंतब्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जइ न पढिउकामो तो वंदइ, अह पढिउकामो तो अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिउँ पडिक्कमइ, एवं तइअं ३" [ ] ।
एतान्यपि त्रीणि सामान्यतश्चैकमेव २ एवं पूर्वाणे सप्त, अपराणेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात्, एतानि ध्रुवाणि कृतिकर्माणि चतुर्दश भवन्ति, अभक्तार्थिकस्य इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्ति । यत उक्तम्"चत्तारि पडिक्कमणे, किइकम्मा हुंति तिन्नि सज्झाए । पुव्वण्हे अवरण्हे, किइकम्मा चोद्दस हवंति ।।१।।" [आवश्यकनिर्युक्तौ १२०१]
इति कृतं प्रसङ्गेन २ तथा कायोत्सर्ग-विकृत्यनुज्ञारूपे, यो हि विकृतिपरिभोगाय आचाम्लविसर्जनार्थं क्रियते ३ । अपराधे गुरुविनयलङ्घनरूपे यतस्तं वन्दित्वा क्षमयति, पाक्षिकवन्दनान्यपराधे पतन्ति ४ । प्राघूर्णके-ज्येष्ठे समागते सति वन्दनकं भवति । अत्र चायं विधिः"संभोइ अण्णसंभोइआ य दुविहा हवंति पाहुणया । संभोइए आयरि अं, आपुच्छित्ता उ वंदति ।।१।। इअरे पुण आयरियं, वंदित्ता संदिसाविअं तहय । पच्छा वंदति जइ, गयमोहा अहव वंदावे ।।२।।" ५ ।
तथा आलोचनायां च ६ संवरणे=भुक्तानन्तरं प्रत्याख्यानकरणे दिवसचरिमरूप इत्यर्थः । अथवा भक्तार्थिनः केनचित्कारणेन पुनरभक्तार्थप्रत्याख्याने ७ उत्तमार्थे चाराधनाकाले ८ इति ।