________________
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | બ્લોક-૨ इत्यादि १७ । रुष्टम् क्रोधाध्मातस्य गुरोर्वन्दनम्, आत्मना वा क्रुद्धेन वन्दनम् १८ । तजितम्, 'अवन्द्यमानो न कुप्यसि, वन्द्यमानश्चाविशेषज्ञतया न मे प्रसीदसीति निर्भर्त्सयतो, यद्वा 'बहुजनमध्ये मां वन्दनं दापयंस्तिष्ठसि ज्ञास्यते मया तवैकाकिनः' इति धिया, तर्जन्या शिरसा वा तर्जयतो वा वन्दनम् १९ । शठम्, शाठ्येन विश्रम्भार्थं वन्दनम्, ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दनम् २० । हीलितम्, हे गणिन्वाचक! किं भवतां वन्दितेनेत्यादिना अवजानतो वन्दनम् २१ । विपरिकुञ्चितम्, अर्द्धवन्दित एव देशादिकथाकरणम् २२ । दृष्टादृष्टम्-तमसि स्थितः केनचिदन्तरित एवमेवास्ते, दृष्टस्तु वन्दते २३ । शृङ्गम्, 'अहोकायं काय' इत्याद्यावर्तानुच्चारयतो ललाटमध्यदेशमस्पृशतः, शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनम् २४ ।
"करइव राजदेयभाग इवाहत्प्रणीतो वन्दनकरोऽवश्यं दातव्य" इतिधिया वन्दनम् २५ । मोचनम् लौकिककराद्वयं मुक्ता, न मुच्यामहे वन्दनकरादिति बुद्ध्या वन्दनम् २६ ।
आश्लिष्टानाश्लिष्टम्-अत्र चतुर्भगी, सा च 'अहोकायं काय' इत्यावर्त्तकाले भवति, रजोहरणस्य शिरसश्च कराभ्यामाश्लेषणम् १, रजोहरणस्य न शिरसः २, शिरसो न रजोहरणस्य ३, न रजोहरणस्य नापि शिरसः ४ अत्र प्रथमः शुद्धः, शेषास्त्वशुद्धाः २७ । न्यूनम्-व्यञ्जनाभिलाषावश्यकैरसम्पूर्णम् २८ ।
उत्तरचूडम्-वन्दनं दत्त्वा महता शब्देन 'मस्तकेन वन्दे' इत्यभिधानम् २९ । मूकम्-आलापाननुच्चारयतो वन्दनम् ३० । ढड्डरम्-महता शब्देनोच्चारयतो वन्दनम् ३१ ।
चूडली-उल्मकम् यथोल्मकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनम, यद्वा दीर्घहस्तं प्रसार्य 'वन्दे' इति भणतो वन्दनम्, अथवा हस्तं भ्रमयित्वा 'सर्वान् वन्दे' इति वदतो वन्दनम् ३२ ।
"किइकम्मंपि कुणंतो, न होइ किइकम्मनिज्जराभागी । . बत्तीसामन्नयरं, साहू ठाणं विराहतो ।।१।।" "बत्तीसदोसपरिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं, अचिरेण विमाणवासं वा ।।२।।" [आवश्यकनिर्युक्तौ १२०५, १२०७]