SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १७ धर्मसंग्रह भाग-4 | दितीय अधिभार | Pels-५२ टोलगन्ति तिड्डवदुत्प्लुत्योत्प्लुत्य विसंस्थुलं वन्दनम् ५ । अङ्कुशम्, उपकरणचोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्याङ्कुशेन गजस्येवाचार्यस्योर्ध्वस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनकार्थमासने उपवेशनम्, न हि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य यद्वा रजोहरणमङ्कुशवत् करद्वयेन गृहीत्वा वन्दनम् यदि वा अङ्कुशाक्रान्तहस्तिन इव शिरोनमनोत्रमने कुर्वाणस्य वन्दनम् ६ ।। कच्छपरिङ्गितम्, ऊर्द्धस्थितस्य 'तेत्तीसण्णयराए' इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा 'अहोकायं काय' इत्यादि सूत्रमुच्चारयतोऽग्रतोऽभिमुखं पश्चादभिमुखं च रिङ्गतश्चलतो वन्दनम् ७ । मत्स्योद्वृत्तम्, उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्त्तते उद्वेल्लते यत्र तत् यद्वा एकं वन्दित्वा द्वितीयस्य साधोद्र्तं द्वितीयपार्श्वेन रेचकावर्तेन मत्स्यवत्परावर्त्तमानस्य वन्दनम् ८ । __ मनसा प्रदुष्टम्-शिष्यस्तत्सम्बन्धी वा गुरुणा किञ्चित्परुषमभिहितो यदा भवति तदा मनसो दूषितत्वात् मनसा प्रदुष्टम् यद्वा वन्द्यो हीनः केनचिद्गुणेन, ततोऽहमेवंविधेनापि वन्दनं दापयितुमारब्ध इति चिन्तयतो वन्दनम् ९ । वेदिकाबद्धं जान्वोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं जानु करद्वयान्तः कृत्वा वा इति पञ्चभिर्वेदिकाभिर्बद्धं युक्तं वन्दनम् १० । बिभ्यत्, ‘सङ्घात्कुलाद्गच्छात्क्षेत्राद्वा निष्कासयिष्येऽहमिति भयाद्वन्दनम्, ११ ।। भजमानम्, 'भजते मां सेवायां पतितः, अग्रे वा मम भजनं करिष्यति, अतोऽहमपि वन्दनसत्कं निहोरकं निवेशयामी'तिबुद्ध्या वन्दनम् १२ । मैत्रीतो मम मित्रमाचार्य इति, आचार्येणेदानी मैत्री वा भवत्विति वन्दनम् १३ । गौरवाद्वन्दनकं सामाचारीकुशलोऽहमिति गर्वादन्येऽप्यवगच्छन्तु मामिति यथावदावर्तादीनाराधयतो वन्दनम् १४ । नम् १५ । कारणात ज्ञानादिव्यतिरिक्ताद्वस्त्रादिलाभहेतोर्वन्दनम, यद्वा ज्ञानादिनिमित्तमपि लोकपज्योऽन्येभ्यो वाऽधिकतरो भवामीति अभिप्रायतो वन्दनं, यद्वा वन्दनकमूल्यवशीकृतो मम प्रार्थनाभङ्गं न करिष्यतीति बुद्ध्या वन्दनम् १५ । स्तैनिकम्, वन्दमानस्य मे लाघवं भविष्यतीति परेभ्य आत्मानं गृहयतो वन्दनम्, अयमर्थः-एवं नाम शीघ्रं वन्दते यथा स्तेनवत् केन(चित्)दृष्टः केनचिनेति १६ । प्रत्यनीकम्, आहारादिकाले वन्दनम्, यदाह-वक्खित्त पराहुत्ते [आवश्यक नि. १२१२]
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy