________________
૧૬
ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-૨
नामानि ५“वंदण १ चिइ २ किइकम्मं, ३, पूआकम्मं च ४ विणयकम्मं ५ । वंदणगस्स य एए, नामाइँ हवंति पंचेव ।।१।।" [प्रवचनसारोद्धारे १२७] एतानि प्रागुक्तशीतलादिदृष्टान्तेषु भावितार्थानि, वन्दनकस्य पञ्चैते निषेधा निषेधस्थानानि“वक्खित्तपराहुत्ते, पमत्ते मा कयाइ वंदिज्जा । आहारं च करिते, नीहारं वा जइ करेइ ।।१।।" [आवश्यकनिर्युक्तौ ११९८, प्रवचनसारो. १२४] व्याक्षिप्तोऽनुयोगप्रतिलेखनादावन्यत्र कर्मणि दत्तमनाः, प्रमत्तो निद्राद्यैः, शेषं व्यक्तम्, आशातनाश्च त्रयस्त्रिंशत्सूत्रेण सह व्याख्यास्यन्ते ।
दोषाः ३२अणाढिअं च थद्धं च, पविद्धं परिपिंडिअं । टोलगइ अंकुसं चेव, तहा कच्छभरिंगिअं- ।।१।। मच्छुव्वत्तं मणसावि पउटुं तह य वेइयाबद्धं । भयसा चेव भयंतं, मित्तिगारवकारणा ।।२।। तेणियं पडिणीयं चेव, रुटुं तज्जियमेव य । सढं च हीलीयं चेव, तहा विपलिउंचियं ।।३।। दिट्ठमदिटुं च तहा, सिंगं च करमोअणं । आलिद्धमणालिद्धं, ऊणं उत्तरचूलिअं ।।४।। मूअं च ढढरं चेव, चुडलियं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजए ।।५।। [आवश्यकनियुक्तौ १२२१-५, प्रवचनसारो. १५०१५४]
आसां व्याख्या-अनादृतम् सम्भ्रमरहितं वन्दनम् निरादरवन्दनमित्यर्थः [तद्दोषदुष्टमिति सर्वत्रयोज्यम्]
स्तब्ध=मदाष्टकवशीकृतस्य वन्दनं, देहमनसोः स्तब्धत्वाच्चतुर्की २ । प्रविद्धम् वन्दनं ददत एव पलायनम् ३ ।
परिपिण्डितं प्रभूतानां युगपद्वन्दनम्, यद्वा कुक्ष्योरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याव्यक्तसूत्रोच्चारणपुरस्सरं वन्दनम् ४ ।