________________
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૬૨
कुत्सितं=ज्ञानादित्रयविराधकं, शीलं = स्वभावो यस्य स कुशीलो, यथा
"कालविणयाइरहिओ, नाणकुसीलो अ दंसणे इणमो । निस्संकिआइविजुओ, चरणकुसीलो इमो होइ ।।१।। कोऊ अभूइकम्मे, पसिणापसिणे निमित्तमाजीवी ।
कक्ककरुआइलक्खण, उवजीवइ विज्जमंताई ।।२।। " [ स. प्र. गुर्वधि. १५- ६, प्रवचन सारो. १११] संविग्नासंविग्नसंसर्गात्तत्तद्भावं संसजति स्मेति संसक्तो यथा
“पासत्थाईएसुं संविग्गेसुं च जत्थ मिलई उ ।
तहि तारिसओ होई, पिअधम्मो अहव इअरो अ ।। १ ।।
सोविअप्पो भणिओ, जिणेहिं जिअरागदोसमोहेहिं ।
एगो अ संकिलिठ्ठो, असंकिलिट्ठो तहा अण्णो ।।२।। " [ प्रवचनसारोद्धारे ११८, १२० ]
यथा कथञ्चिद् = गुर्वागमनिरपेक्षतया, सर्वकार्येषु छन्दोऽभिप्रायो यस्य स यथाछन्दो, यथा
“उस्सुत्तमणुवइट्टं, सच्छंदविगप्पिअं अणणुवाई |
परतत्ति पवत्तेइ, तिणे अ इणमो अहाछंदो । । १ । । " [ प्रवचनसारोद्धारे १२२]
“पासत्थाइ वंदमाणस्स नेव कित्ती न निज्जरा होइ ।
कायकिलेसं एमेव, कुणई तह कम्मबंधं च ।। १ ।। ” [आव.नि.११८८]
किं बहुना ? तैः संसर्गं कुर्वन्तो गुणवन्तोऽप्यवन्दनीयाः, यतः
'असुइट्ठाणे पडिआ, चंपगमाला न कीरई सीसे ।
૧૫
पासत्थाईठाणेसुं, वट्टमाणा तह अपुज्जा ।।१।।
पक्कणकुले वसंतो, सउणीपारोवि गरहिओ होइ ।
अगरहिआ सुविहिआ, मज्झि वसंता कुसीलाणं ।। २ ।। [ आवश्यक नि. १९११ - १११२] इति । ज्ञातानि
" दव्वे भावे वंदण १, रयहरणा २ऽऽवत्त ३ नमण ४ विणएहिं ५ ।
सीअल १ खुड्डय २ कण्हे ३, सेवय ४ पालय ५ उदाहरणा ।। १ ।। "
तत्र वन्दने = गुणस्तुतौ शीतलाचार्यदृष्टान्तः १ द्रव्यचितौ = रजोहरणादिधारणे, भावचितौ ज्ञानादित्रये क्षुल्लकाचार्यकथा २ । आवर्त्तादिकृतिकर्मणि कृष्णदृष्टान्तः ३ शिरोनमनपूजायां सेवकद्वयदृष्टान्तः ४ विनयकर्मणि शम्बपालकदृष्टान्तः ५ कथानकविस्तरस्तु ग्रन्थान्तरादवसेयः, एकोऽवग्रहः सार्द्धत्रयहस्तमानः सूत्रव्याख्यायां वक्ष्यमाणः ।