________________
૧૦
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | दो-५२ प्रत्याख्यानस्य देवसमीपे कृतस्य, ततो विशिष्टस्य वा, क्रियाकरणं गुरुमुखेन प्रतिपत्तिरित्यर्थः अयं च विशेषतो गृहिधर्म इत्यन्वयः, त्रिविधं हि प्रत्याख्यानकरणम्-आत्मसाक्षिकं १ देवसाक्षिकं २ गुरुसाक्षिकं ३ चेति गुरोः पार्श्वे प्रत्याख्यानं कार्यम् । उक्तं च
“प्रत्याख्यानं यदासीत्तत्करोति गुरुसाक्षिकम् । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकम् ।।१।।"
गुरुसाक्षिकत्वे हि दृढता भवति प्रत्याख्यानपरिणामस्य, 'गुरुसक्खिओ हु धम्मो' [ ] इति जिनाज्ञाराधनम्, गुरुवाक्योद्भूतशुभाशयाधिकः क्षयोपशमस्तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः, तत्प्रोक्तं श्रावकप्रज्ञप्तौ“संतंमिवि परिणामे, गुरुमूलपवज्जणंमि एस गुणो । दढया आणाकरणं, कम्मखओवसमवुड्डी अ ।।१।।" [ ]
एवं चान्येऽपि नियमाः सति संभवे गुरुसाक्षिकं स्वीकार्याः प्रत्याख्यानकरणं च गुरोविनयपूर्वकमित्युक्तं, स च वन्दनादिरूपस्तत्र वन्दनं त्रिधा यद्भाष्यम्"गुरुवंदणमह तिविहं, तं फिट्टा १ छोभ २ बारसावत्तं ३ । सिरनमणाइसु पढमं, पुण्ण खमासमणदुगि बीअं ।।१।। तइअं तु छंदणदुगे, तत्थ मिहो आइमं सयलसंघे । बीअं तु दंसणीण य, पयट्ठिआणं च तइअं तु ।।२।।" [गुरुवन्दनभाष्ये १,४] येन च प्रतिक्रमणं मण्डल्यां कृतं न स्यात्तेन विधिना बृहद्वन्दनं दातव्यम्, तद्विधिश्चैवं भाष्ये“इरिआकुसुमिणुसग्गो, चिइवंदणपुत्तिवंदणालोअं । वंदणखामणवंदणसंवरचउछोभदुसज्झाओ ।।१।। इरिआचिइवंदणपुत्तिवंदणचरिमवंदणालोअं । वंदणखामणचउछोभदिवसुस्सग्गो दुसज्झाओ ।।२।।" [गुरुवन्दनभाष्ये ३८-३९]
अनयोर्व्याख्या-प्रथमम् ईर्यापथिकीप्रतिक्रमणम्, ततः कुसुमिणेत्यादिकायोत्सर्गः शतोच्छ्वासमानः कुस्वप्नाद्युपलम्भे त्वष्टोत्तरशतोच्छ्वासमानः, ततश्चैत्यवंदना, ततः 'पुत्तित्ति' मुखवस्त्रिका क्षमाश्रमणपूर्वं प्रतिलेख्या, ततो वन्दनकद्वयम्, आलोचनं च पुनर्वन्दनकद्वयम्, क्षमणकं च, पुनर्वन्दनकद्वयम्, 'संवरत्ति' प्रत्याख्यानं च 'चउछोभत्ति' भगवन् इत्यादीनि चत्वारि क्षमाश्रमणानि, ततः 'सज्झाय संदिसावउं सज्झाय करउं' इति क्षमाश्रमणद्वयं दत्त्वा स्वाध्यायः कार्य इति प्रातस्त्यवन्दनविधिः ।