________________
धर्मसंग्रह भाग-५ | द्वितीय अधिकार | श्लो-१२ आशातनावारणाय विवेकः कार्यो विवेकिभिरित्यलं प्रसङ्गेन तथा स्वशक्त्या निजशक्त्यनुसारेण, नतु स्वशक्त्यतिक्रमेण, तथा सति लोकोपहासात-ध्यानादिप्रवृत्तेः ।
उचितानि चैत्यसम्बन्धियोग्यकार्याणि एतच्चैत्यप्रदेशसंमार्जनचैत्यभूमिप्रमार्जनपूजोपकरणसमारचनप्रतिमापरिकरादिनैर्मल्यापादनविशिष्टपूजाप्रदीपादिशोभाविर्भावनाऽक्षतनैवेद्यादिवस्तुस्तोमसत्यापनचन्दनकेसरधूपघृतादिसंचयनदेवद्रव्योद्ग्राहणिकाकरणोद्यमनतत्सुस्थानस्थापनतदायव्ययादिसुव्यक्तलेख्यकविवेचनकर्मकरस्थापनप्रभृतीनि, तेषां चिन्तनं चिन्ताकरणं, अन्वयस्तूक्त एव । अयं भावःआढ्यस्य द्रव्यपरिजनादिबलसाध्या चिन्ता सुकरा, अनाढ्यस्य तु स्ववपुः कुटुम्बादिसाध्या दुष्करा, ततो यस्य यत्र यथा सामर्थ्यम्, स तत्र तथा विशेषतः प्रवर्त्तते, तत्रापि या चिन्ता स्वल्पसमयसाध्या तां द्वितीयनैषेधिक्या अर्वाग्विधत्ते, शेषां तु पश्चादपि यथायोग्यम् । एतदेव च गार्हस्थ्यसारम्, तथाचाह"तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं । सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए ।।१।।" इति । जीर्णोद्धारकरणे च महाफलं, यदाह“अप्पा उद्धरिणो च्चिअ, उद्धरिओ तहय तेहि निअवंसो । अन्ने अ भव्वसत्ता, अणुमोअंता उ जिणभवणं ।।१।। खविअं नीआगोअं, उच्चागोअं च बंधिअं तेहिं ।। कुगइपहो निट्ठविओ, सुगईपहो अज्जिओ तह य ।।२।। इहलोगंमि सुकित्ती, सुपुरिसमग्गो अ देसिओ होई । अन्नेसिं भव्वाणं, जिणभवणं उद्धरंतेणं ।।३।। सिझंति केइ तेणेव, भवेण सिद्धत्तणं च पाविति । इंदसमा केइ पुणो, सुरसुक्खं अणुभवेऊणं ।।४।।" [श्राद्धदिनकृत्ये गा. १०१-४] इति ।
एवं धर्मशालागुरुज्ञानादेरपि यथोचितचिन्तायां स्वशक्त्या यतनीयम्, न हि देवगुर्वादीनां श्रावकं विनाऽन्यः कश्चिच्चिन्ताकर्ताऽस्तीति ।
इदानीं जिनपूजादिकार्यानन्तरकरणीयमाह-'प्रत्याख्याने त्यादि, 'गुरोः'धर्माचार्यस्य देववन्दनार्थमागतस्य, स्नात्रादिदर्शनधर्मदेशनाद्यर्थं तत्रैव स्थितस्य, वसतौ वा, चैत्यवनषेधिकीत्रयाधिगमपञ्चकादियथार्हविधिना गत्वा, धर्मदेशनायाः प्राक् पश्चाद्वा, तस्याभ्यणे-उचिते समीपे, उचितत्वं चार्द्धचतुर्थहस्तप्रमाणात् क्षेत्राबहिरवस्थानम्, विनयो-व्याख्यास्य-मानवन्दनकादिरूपस्तत्पूर्वकं तमादौ कृत्वेत्यर्थः,