________________
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | Gls-५२ तदन्तर्देयम्, तदुल्लङ्घने तु देवद्रव्योपभोगदोषः स्फुट एव देवसत्कं वादित्रमपि गुरोः सङ्घस्यापि चाग्रे न वाद्यम्, केचित्त्वाहुः-पुष्टावलम्बने बहुनिष्क्रियार्पणपूर्वं व्यापार्यते अपि, यतो“मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई । जो वावारइ मूढो, निअकज्जे सो हवइ दुहिओ ।।१।।" स्वयं च व्यापारयता जातु भने उपकरणस्य स्वद्रव्येण नव्यसमारचनम् स्वगृहदीपश्च देवदर्शनार्थमेव देवाग्रे आनीतोऽपि देवसत्को न स्यात्, पूजार्थमेव देवाग्रे मोचने तु देवसत्क एव, परिणामस्यैव प्रामाण्यात् ।
एवं ज्ञानद्रव्यमपि देवद्रव्यवन कल्प्यते, ज्ञानसत्कं कागदपत्रादि साध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्यम्, साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युक्तम्, गुरुद्रव्यत्वात् । [उक्तं च श्राद्धजीतकल्पे"मुहपत्तिआसणाइसु, भिन्न जलन्नाइसु गुरुलहूगाई ।। जइदव्वभोगि इअ पुण, वत्थाइसु देवदव्वंव ।।१।।" [गा. ६८] भावार्थो यथा गुरुयतिसत्केषु मुखवस्त्रिकाऽऽसनाऽशनादिषु परिभुक्तेषु भिन्नम्, तथा जलेऽने आदिशब्दाद्वस्त्रादौ च विक्रमार्कादिनेव केनापि साधुनिश्रयाकृते लिङ्गिसत्के कनकादौ वा परिभुक्ते गुरुलघुकादयः क्रमेण स्युः, अयमर्थः गुरुसत्के जले भुक्ते री, अन्ने ४ वस्त्रादौ ६ लघवः ४ कनकादौ ६ इति एवं च गुरुद्रव्यं भोगार्हपूजार्हभेदाभ्यां द्विविधम्, तत्राद्यं वस्त्रपात्राऽशनादि, द्वितीयं च तनिश्राकृतं सौवर्णमुद्रादीति पर्यवसनम्]
साधारणं तु सङ्घदत्तं कल्पते अत एव च मुख्यवृत्त्या धर्मव्ययः साधारण एव क्रियते, तस्याशेषधर्मकार्ये उपभोगागमनात्, धर्मस्थाने प्रतिज्ञातं च द्रव्यं पृथगेव व्ययितव्यम्, नतु स्वयं क्रियमाणभोजनदानादिरूपव्यये क्षेप्यम्, एवं स्फुटमेव धर्मधनोपयोगदोषात्, एवं सति ये यात्रादौ भोजनशकटसंप्रेषणादिव्ययं सर्वं मानितव्ययमध्ये गणयन्ति, तेषां मूढानां न ज्ञायते का गतिः? । उद्यापनादावपि प्रौढाडम्बरेण स्वनाम्ना मण्डिते जनबहुश्लाघादि स्यात्, निष्क्रयं तु स्तोकं मुञ्चतीति व्यक्त एव दोषः तथाऽन्यप्रदत्तधर्मस्थानव्ययितव्यधनव्ययसमये तन्नाम स्फुटं ग्राह्यम्, एवं सामुदायिकस्यापि, अन्यथा पुण्यस्थाने स्तैन्यादिदोषापत्तेः, एवमन्त्यावस्थायां पित्रादिनां यन्मान्यते तत्सावधानत्वे गुर्वादिसङ्घसमक्षमित्थं वाच्यं यद्भवनिमित्तमियद्दिनमध्ये इयद्व्ययिष्यामि, तदनुमोदना भवद्भिः कार्येति तदपि च सद्यः सर्वज्ञातं व्ययितव्यम्, न तु स्वनाम्ना अमारिद्रव्यं तु देवभोगेऽपि नायाति, इत्येवं सर्वत्र धर्मकार्ये