________________
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | Cोs-१२
भण्णइ इत्थ विभासा, जो एआइ सयं विमग्गिज्जा । तस्स न होइ विसोही, अह कोइ हरिज्ज एआई ।।२।। तत्थ करंतु उवेहं, सा जा भणिआ उ तिगरणविसोही ।। सा य न होइ अभत्ती, तस्स य तम्हा निवारिज्जा ।।३।। सव्वत्थामेण तहिं, संघेण य होइ लग्गिअव्वं तु । सचरित्तचरित्तीण य, सव्वेहिं होइ कज्जं तु ।।४।।" इति । व्यवहारभाष्येऽपि"चेइअदव्वं गिह्णत्तु, भुंजए जो उ देइ साहूणं । सो आणाअणवत्थं, पावइ लिंतोवि दिंतोवि ।।१।।” इति । देवद्रव्यभक्षणरक्षणवर्धनेषु यथाक्रमं फलानि यथा"जिणपवयणवुड्डिकरं, पभावगं नाणदसणगुणाणं । भक्खंतो जिणदव्वं, अणंतसंसारिओ होइ ।।१।।" [श्राद्धदिनकृत्ये-१४२] । जिणपवयणत्ति सति हि देवद्रव्ये प्रत्यहं चैत्यसमारचनमहापूजासत्कारसंभवः, तत्र च प्रायो यतिजनसंपातः, तद्व्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः, एवं ज्ञानादिगुणानां प्रभावना चेत्यर्थः
“जिणपवयणवुड्डिकर, पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ ।।२।।" [सम्बोधप्रकरणे ९८, श्राद्धदिनकृत्ये १४३] परित्तिति परिमितभवस्थितिः "जिणपवयणवुड्किरं पभावगं नाणदंसणगुणाणं । वु(व)टुंतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ।।३।।" [श्राद्धदिनकृत्ये १४४, सम्बोधप्रकरणे ९७]
वृद्धिरत्र सम्यग्रक्षणपूर्वाऽपूर्वधनप्रक्षेपादितोऽवसेया वृद्धिरपि कुव्यापारवर्ज सद्व्यवहारादिविधिनैव कार्या, यतः
"जिणवर आणारहिअं, वद्धारंतावि केवि जिणदव्वं । बुडंति भवसमुद्दे, मूढा मोहेण अन्नाणी ।।१।।" [सम्बोध प्र. देवाधि. १०२] ।
केचित्तु श्राद्धव्यतिरिक्तेभ्यः समधिकग्रहणकं गृहीत्वा कलान्तरेणापि न वृद्धिरुचितेत्याहुः, सम्यक्त्ववृत्त्यादौ शङ्काशकथायां तथोक्तेः तथा मालापरिधापनादौ देवसत्कं कृतं द्रव्यं सद्य एव देयम्, अन्यथा पूर्वोक्तदेवद्रव्योपभोगदोषप्रसङ्गात्, सद्योऽर्पणासमर्थस्तु पक्षाद्यवधिं स्फुटं कुर्यात्,