________________
धर्मसंग्रह भाग-4 / द्वितीय मधिर | -१२
प्रथममीर्यापथिकीप्रतिक्रमणम्, ततश्चैत्यवन्दना, क्षमाश्रमणपूर्वं मुखवस्त्रिकाप्रतिलेखनम्, वन्दनकद्वयम्, दिवसचरिममिति प्रत्याख्यानं च, ततो वन्दनकद्वयम्, आलोचनं च, वन्दनकद्वयं च, क्षमणकं च, भगवन् इत्यादिछोभवन्दनानि चत्वारि, ततो देवसिअपायच्छित्तेतिकायोत्सर्गः, ततः प्राग्वत् क्षमाश्रमणद्वयपूर्वं स्वाध्यायः, अयं सान्ध्यवन्दनविधिः ।
अत्र च द्वादशावर्त्तवन्दने अष्टनवत्यधिकशतसङ्ख्यस्थानानि ज्ञेयानि, तानि यथा"मुहणतय २५ देहा २५ वस्सएसु २५ पणवीस हुंति पत्तेअं । छठ्ठाण ६ छगुरुवयणा ६, छच्च गुणा ६ हुंति नायव्वा ।।१।। अहिगारिणो य पंच य ५, इअरे पंचेव ५ पंच आहरणा ५ । एगोवग्गह १ पंचाभिहाण ५ पंचेव पडिसेहा ५ ।।२।। आसायण तित्तीसं ३३, दोसा बत्तीस ३२ कारणा अट्ठ ८ । छद्दोसा ६ अडनउअं, ठाणसयं वंदणे होइ १९८ ।।३।।" [तुला-प्रव. सारो. ९३-९५] एतद्विवरणं यथा"दिट्ठिपडिलेह एगा, पप्फोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा, नव नव मुहपत्ति पणवीसा ।।१।। पायाहिणेण तिअ तिअ, बाहुसु सीसे मुहे अ हिअए अ । पिट्ठीइ हुंति चउरो, छप्पाए देहपणवीसा ।।२।।" [प्रवचनसारो. ९७]
एताश्च देहप्रतिलेखनाः पञ्चविंशतिः पुरुषानाश्रित्य ज्ञेया, स्त्रीणां तु गोप्यावयवगोपनाय हस्तद्वयवदनपादद्वयानां प्रत्येकं तिस्रः २ प्रमार्जना इति पञ्चदशैव भवन्तीति प्रवचनसारोद्धारवृत्ती [तुला प. ५७] । तथा मुखकायप्रतिलेखनासु मनसः स्थिरीकरणार्थमेवं विचिन्तयेत्
"सुत्तत्थतत्तदिट्ठी १, दंसणमोहत्तिगं च ४ रागतिगं ७ । देवाईतत्ततिगं १०, तहय अदेवाइतत्ततिगं १३ ।।१।। नाणाइतिगं १६ तह तव्विराहणा १९ तिन्निगुत्ति २२ दंडतिगं २५ । इअ मुहणंतगपडिलेहणाइ कमसो विचिंतिज्जा ।।२।। हासो रई अ अरई ३, भय सोग दुगुंछया य ६ वज्जिज्जा । भुअजुअलं पेहंतो, सीसे अपसत्थलेसतिगं ९।।३।। गारवतिगं च वयणे १२, उरि सल्लतिगं १५ कसायचउ पिढे १९ । पयजुगि छज्जीववहं २५, तणुपेहाए वि जाणमिण ।।४।।