________________
૧૫૪
धर्मसंग्रह भाग-4 /द्वितीय अधिकार | CIS-१४ सहाऽसहादिकं च ज्ञात्वा, 'विज्जुब रोगिअस्स'त्ति, यथा किल भिषग् देशकालादि विचार्य व्याधिमतश्चिकित्सां करोत्येवं श्रावकोऽपि ततः क्रियामाहारादिदानरूपां प्रयुक्त इति' तद्वृत्तिः [श्राद्धदिनकृत्यवृत्तौ प. २९३] । ___ तत्र च साधूनां यद्योग्यं तत्तत्सर्वं विहारयितुं प्रत्यहं नामग्राहं कथयति, अन्यथा प्राक्कृतनिमन्त्रणस्य वैफल्यापत्तेः, नामग्राहं कथने तु यदि साधवो न विहरन्ति, तथापि कथयितुः पुण्यं स्यादेव, अकथने तु विलोक्यमानमपि साधवो न विहरन्तीति हानिः एवं गुरून्प्रतिलभ्य वन्दित्वा च गृहद्वारादि यावदनुव्रज्य च निवर्त्तते साध्वभावे त्वनभ्रवृष्टिवत्साध्वागमनं जातु स्यात्तदा कृतार्थः स्यामिति दिगालोकं कुर्यात्, तथा चाहुः
"जं साहूण न दिण्णं, कहिंपि तं सावया न भुंजंति । पत्ते भोअणसमए, बारस्सालोअणं कुज्जा ।।१।।" दानक्रियायामुत्सर्गापवादौ त्वेवम्“संथरणंमि असुद्धं, दुण्हवि गिण्हंतदितयाणऽहिअं । आउरदिटुंतेणं, तं चेव हिअं असंथरणे ।।१।।" [श्राद्धदिनकृत्ये १७५] संस्तरणे प्रासुकैषणीयाहारादिप्राप्तौ साधूनां निर्वाहे सति, अशुद्धं द्विचत्वारिंशद्दोषदूषितमाहारादि, द्वयोरपि गृहीतृ-दात्रोः, अहितं संसारप्रवृद्धेरल्पायुष्कतायाश्च हेतुत्वादपथ्यं स्याद् । यदागमः"जो जह व तह व लद्धं, गिण्हइ आहारमुवहिमाईअं । समणगुणमुक्कजोगी, संसारपवड्ढओ भणिओ ।।१।।" तथा दायकस्य-“कहण्णं भंते ! जीवा अप्पाउत्ताए कम्मं पकरिंति? गोअमा! पाणे अइवाइत्ता भवइ, मुसं वइत्ता भवइ, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाण-खाइमसाइमेण पडिलाभित्ता भवइ, एवं खलु जीवा अप्पाउअत्ताए कम्मं पकरेंति” [भगवतीसूत्रे २०३] त्ति । । • इत्थं चोत्सर्गत उभयोरपि दोषदुष्टमहितमेव, अपवादतस्तु आउरेत्यादि, आतुरो रोगी, तस्य दृष्टान्तस्तेन, यथा हि रोगिणः कामप्यवस्थामाश्रित्य पथ्यमप्यपथ्यं स्यात्, काञ्चित्पुनः समाश्रित्यापथ्यमपि पथ्यं स्याद्, एवमत्र 'तं चेव'त्ति तदेवाशुद्धमपि ग्रहीतृदात्रोर्हितमवस्थोचितत्वात् पथ्यं स्यात्, क्वेत्याहअसंस्तरणेऽनिर्वाहे, दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः, अयमभिप्रायो-यद्यप्येतत्कर्मबन्धहेतुर्वर्णितम्, तथापि“सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ, पुणो विसोही न याविरई ।।१।।" [ओघनिर्युक्तौ ४७]