________________
૧૫૫
धर्मसंग्रह भाग-4 / द्वितीय मधिलार | -१४
इत्याद्यागमाभिज्ञैर्यथावसरं बहुतरगुणलाभकाङ्क्षया गृह्यमाणं दीयमानं च न दोषाय, तथा चागमः“अप्पेण बहुमेसेज्जा, एअं पंडिअलक्खणं । सव्वासु पडिसेवासु, एअं अट्ठापयं विऊ ।।१।।" "काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च निईइ व सारविस्सं, सालंबसेवी समुवेइ मुक्खं ।।१।।" इति । दायकस्य गुणो यथा
“समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिल्लाभेमाणस्स किं कज्जइ? गोअमा! बहुतरिया से णिज्जरा कज्जइ, अप्पतरए से पावकम्मे कज्जइत्ति" । [भगवतीसूत्रे २६३]
तथा
“पहसंतगिलाणेसुं, आगमगाहीसु तहय कयलोए । उत्तरपारणगम्मि अ, दिण्णं सुबहुप्फलं होइ ।।१।।"
इदमत्रावधेयम्-सकलोऽप्ययं दानविधिः ऋद्धिमच्छावकमाश्रित्य ज्ञेयः, यतः स हि स्वपरपक्षाद्यविशेषेण सर्वसाधुभ्योऽनपानवस्त्रपात्रादि सर्वं ददाति दरिद्रश्रावकस्तु तथादानाशक्तौ दानश्रद्धालुगृहाणि साधुभ्यो दर्शयति, तुच्छो ह्यविशेषेण दातुमशक्तोऽतोऽसौ धर्मगुरूणां दुष्प्रतिकारतया विशेषपूजनीयत्वात्तेभ्यस्तत्परिवाराय वा ददाति, शेषसाधुभ्यो गृहाण्युपदर्शयतीतिभावः अत एवोच्यत
“सड्डेणं सइ विहवे, साहूणं वत्थमाइ दायव्वं । गुणवंताणऽविसेसो, दिसाइ तत्थवि न जेसत्थि ।।१।।" तुच्छेन दिशा देयम्, तत्रापि येषां साधूनां वस्त्रादि नास्ति तेभ्यो देयमित्यर्थः तदुक्तं प्रत्याख्यानपञ्चाशके“संतेअरलद्धिजुएअराइभावेसु होइ तुल्लेसुं । दाणं दिसाइभेए, तीएऽदितस्स आणाई ।।१।।" [५-४३] व्याख्या-इहाविशेषेण साधुभ्यो दानं दातव्यं श्रावकेण, अथ तुच्छद्रव्यत्वादविशेषेण दानाशक्तिः, ते च सद्वस्त्रत्वादिभिर्द्धर्मेस्तुल्यास्तदा को विधिः?, अत्रोच्यते, सन्तेत्ति सत्-विद्यमानं वस्त्रादि, इतरच्च अविद्यमानं वस्त्राद्येव, तदसत्त्वेऽपि लब्धियुतश्च वस्त्रादिलाभयोग्यतायुतः, इतरश्च-तद्विकल इति द्वन्द्वः, ते आदिर्येषां ते तथा, आदिशब्दात् सपक्षसत्त्वेन संभाव्यमानवस्त्रादिलाभतदितरादिग्रहः एतानि च सदादिपदानि लुप्तभावप्रत्ययानि द्रष्टव्यानि । ततश्च ते भावाश्च साधूनामवस्थाः