________________
૧૫
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | CIS-53
“अवमाणं न पयासइ, खलिए सिक्खेइ कुविअमणुणेइ । धणहाणिवुड्ढिघरमंतवइअरं पयडइ न तीसे ।।१६।।"
अपमानं निर्हेतुकं नास्यै प्रदर्शयति, स्खलिते किञ्चिदपराधे निभृतं शिक्षयति, कुपितां चानुनयति, अन्यथा सहसाकारितया कूपपाताद्यमप्यनर्थं कुर्यात्, पयडइत्ति धनहानिव्यतिकरं न प्रकटयति, प्रकटिते तु धनहानिव्यतिकरे तुच्छतया सर्वत्र तद्वृत्तान्तं व्यञ्जयति, धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्त्तते, तत एव गृहे स्त्रियाः प्राधान्यं न कार्य, “सुकुलुग्गयाहिं परिणयवयाहिं निच्छम्मधम्मनिरयाहिं । सयणरमणीहिं पीइं, पाउणइ समाणधम्माहिं ।।१७।।" पाउणइत्ति प्रापयति । "रोगाइसु नोविक्खइ, सुसहाओ होइ धम्मकज्जेसुं । एमाइ पणइणिगयं, उचिअं पाएण पुरिसस्स ।।१८।।" "पुत्तं पइ पुण उचिअं, पिउणो लालेइ बालभावंमि । उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो ।।१९। "गुरुदेवधम्मसुहिसयणपरिचयं कारवेइ निच्चंपि । उत्तमलोएहिं समं, मित्तीभावं रयावेइ ।।२०।।" "गिणावेइ अ पाणिं, समाणकुलजम्मरूवकन्नाणं । . गिहभारंमि निझुंजइ, पहुत्तणं विअरइ कमेणं ।।२१।।" "पच्चक्खं न पसंसइ, वसणोवहयाण कहइ दुरवत्थं । आयं वयमवसेसं च, सोहए सयमिमाहितो ।।२२।।" "प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः । कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृताः स्त्रियः ।।१।।"
इति वचनात्पुत्रप्रशंसा न युक्ता, अन्यथा निर्वाहादर्शनादिहेतुना चेत्कुर्यात् तदापि न प्रत्यक्षम्, गुणवृद्ध्यभावाभिमानादिदोषापत्तेः द्यूतादिव्यसनिनां निर्द्धनत्वन्यत्कारतर्जनताडनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्त्तन्ते आयं व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः शोधयति, एवं स्वस्याप्रभुत्वं पुत्राणां स्वच्छन्दत्वमपास्तम्,
"दंसेइ नरिंदसभं, देसंतरभावपयडणं कुणइ । इच्चाइ अवच्चगयं, उचिअं पिउणो मुणेअव्वं ।।२३।।"