________________
૧૨૦
धर्भसंग्रह भाग-4 / द्वितीय अधिकार | RI5-93 केचित्त्वाहुः. “आयादर्द्धं नियुञ्जीत, धर्म समधिकं ततः ।
शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ।।१।।" । निर्द्रव्यसद्रव्ययोरयं विभाग इत्येके, इह न्यायार्जितवित्तसत्पात्रविनियोगाभ्यां चतुर्भङगी-तत्र न्यायार्जितविभवसत्पात्रविनियोगरूपः पुण्यानुबन्धिपुण्यहेतुः शालिभद्रादिवत् १, न्यायागतविभवयत्तत्पात्रपोषरूपो द्वितीयो भगः पापानुबन्धिपुण्यहेतुर्लक्षभोज्यकृतिप्रवत् २, अन्यायायातविभवसत्पात्रपोषरूपस्तृतीयः राजादिबह्वारम्भिणामनुज्ञातः ३, अन्यायोपार्जितार्थकुपात्रपोषरूपश्चतुर्थस्त्याज्य एव विवेकिना ४ एवं न्यायेनार्थार्जने यतनीयम्, व्यवहारशुद्ध्यैव च सर्वोऽपि धर्मः सफलः, यद्दिनकृत्ये"ववहारसुद्धि धम्मस्स, मूलं सव्वन्नूभासए । ववहारेणं तु सुद्धेणं, अत्थसुद्धी तओ भवे ।।१।।" "सुद्धेणं चेव अत्येणं, आहारो होइ सुद्धओ । आहारेणं तु सुद्धेणं, देहसुद्धी जओ भवे ।।२।।" "सुद्धेणं चेव देहेणं धम्मजुग्गो अ जायई । जं जं कुणइ किच्चं तु, तं तं से सफलं भवे ।।३।।" "अण्णहा अफलं होइ, जं जं किच्चं तु सो करे । ववहारसुद्धिरहिओ, धम्मं खिसावए जओ ।।४।।" “धम्मखिसं कुणताणं, अप्पणो अ परस्स य । अबोही परमा होइ, इअ सुत्ते वि भासिअं ।।५।।" “तम्हा सव्वपयत्तेणं, तं तं कुज्जा वियक्खणो । जेण धम्मस्स खिसं तु, न करे अबुहो जणो ।।६।।" [श्राद्धदिनकृत्ये १५९-६४] अतो व्यवहारशुद्ध्यै सम्यगुपक्रम्यम् इति व्यवहारशुद्धिस्वरूपम् ।। तथा देशादिविरुद्धपरिहारो देशकालनृपलोकधर्मविरुद्धवर्जनम्, यदुक्तं हितोपदेशमालायाम्“देसस्स य कालस्स य, निवस्स लोगस्स तह य धम्मस्स । वज्जंतो पडिकूलं, धम्म सम्मं च लहइ नरो ।।१।।" तत्र यद्यत्र देशे शिष्टजनैरनाचीर्णं तत्तत्र देशविरुद्धम्, यथा सौवीरेषु कृषिकर्मत्यादि अथवा जातिकुलाद्यपेक्षयाऽनुचितं देशविरुद्धम्, यथा ब्राह्मणस्य सुरापानमित्यादि १ ।