________________
धर्मग्र भाग-५ / द्वितीय अधिडार | PRो5-93
૧૧૯ स्वामिमित्रविश्वस्तदेवगुरुवृद्धबालद्रोहन्यासापहारादीनि तु तद्धत्याप्रायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि इह पापं द्विधा, गोप्यं स्फुटं च गोप्यमपि द्विधा, लघु महच्च तत्र लघु कूटतुलामानादि, महद्विश्वासघातादि स्फुटमपि द्विधा-कुलाचारेण निर्लज्जत्वादिना च कुलाचारेण गृहिणामारम्भादि, म्लेच्छादीनां हिंसादि च निर्लज्जत्वादिना तु यतिवेषस्य हिंसादि, तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि, प्रवचनोड्डाहादेर्हेतुत्वात् कुलाचारेण पुनः स्फुटे स्तोकः कर्मबन्धः, गोप्ये तु तीव्रतरोऽसत्यमयत्वात् असत्यं च महत्तमं पातकम्, यतो योगशास्त्रान्तरश्लोके'एकत्रासत्यजं पापं, पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ।।१।।' [२१६४ वृत्तौ] इति । प्रीतिपदे च सर्वथाऽर्थसम्बन्धादि वर्जयेत् न च साक्षिणं विना मित्रगृहेऽपि स्थापनिका मोच्या, मित्रादिहस्ते न द्रव्यप्रेषणाद्यपि युक्तम्, अविश्वासस्यार्थमूलत्वाद्विश्वासस्यानर्थमूलत्वाच्च यथा तथा शपथादिकं च न विदध्यात्, विशिष्य देवगुर्वादिविषयम् नापि परप्रतिभूत्वादिसङ्कटे प्रविशेत् समुदितक्रयविक्रयादिप्रारम्भे वाऽविघ्नेनाभिमतलाभादिकार्यसिद्ध्यर्थं पञ्च-परमेष्ठिस्मरणश्रीगौतमादिनामग्रहण-कियत्तद्वस्तुश्रीदेवगुर्वाधुपयोगित्वकरणादि कर्त्तव्यम्, धर्मप्राधान्येनैव सर्वत्र साफल्यात्, धनार्जनार्थमुद्यच्छता च सप्तक्षेत्रीव्ययादिधर्ममनोरथा महान्त एव नित्यं कर्त्तव्याः सति च लाभसम्भवे तान् सफलानपि कुर्यात् । 'ववसायफलं विहवो, विहवस्स फलं सुपत्तविणिओगो ।----.... तयभावे ववसाओ, विहवोविअ दुग्गइनिमित्तं ।।१।।' एवं च धर्मर्द्धिर्भवति, अन्यथा तु भोगड़िः पापड़िा , उक्तं च“धम्मिद्धी १ भोगिद्धी २ पाविद्धी ३ इअ तिहा भवे इद्धी । सा भणइ धम्मिड्डी, जा णिज्जइ धम्मकज्जेसुं ।।१।। सा भोगिड्डी गिज्झइ, सरीरभोगंमि जीइ उवओगो । जा दाणभोगरहिआ, सा पाविड्डी अणत्यफला ।।२।।"
अतो देवपूजादानादिकैनैत्यिकैः सङ्घपूजासाधर्मिकवात्सल्यादिकैश्चावसरिकैः पुण्यैर्निजद्धिः पुण्योपयोगिनी कार्या अवसरपुण्यकरणमपि नित्यपुण्यकरणकर्तुरेवौचितीकरम् लाभेच्छा तु स्वभाग्यानुसारेणैव कुर्यादन्यथाऽऽर्तध्यानप्रवृद्धिः स्यात्, ततश्च मुधा कर्मबन्धः व्ययं चायोचितं कुर्यात्, यतः"पादमायान्निधिं कुर्यात्पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं, पादं भर्त्तव्यपोषणे ।।१।।"