________________
૧૧૬
धर्भसंग्रह भाग-५/द्वितीय मधिर | दो-93
"दुब्भिगन्धपरि(मल)स्सावी, तणुरप्पेसण्हाणिआ । दुहा वाउवहो चेव, तेण टुंति न चेइए ।।३।।" “तिन्नि वा कड्डई जाव, थुइओ तिसिलोइआ । ताव तत्थ अणुण्णायं, कारणेण परेणवि ।।४।।" एतयोर्भावार्थः-साधवश्चैत्यगृहे न तिष्ठन्ति, अथवा चैत्यवन्दनान्त्यशक्रस्तवाद्यनन्तरं तिस्रः स्तुतीः श्लोकत्रयप्रमाणाः प्रणिधानार्थं यावत् कर्षन्ति, प्रतिक्रमणानन्तरं मङ्गलार्थं स्तुतित्रयपाठवत्, तावच्चैत्यगृहे साधूनामनुज्ञातं निष्कारणं न परतः, सिद्धाणमित्यादिश्लोकत्रयमात्रान्तपाठे तु सम्पूर्णवन्दनाभाव एव प्रसजति, श्लोकत्रयपाठानन्तरं चैत्यगृहे अवस्थानाननुज्ञातेन प्रणिधानासद्भावात् भणितं चागमे वन्दनान्ते प्रणिधानम्, यथा
'वंदइ नमसइत्ति सूत्रम्, वृत्तिः-वन्दते ताः प्रतिमाश्चैत्यवन्दनादिविधिना प्रसिद्धेन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति तिस्रः स्तुतयोऽत्र प्रणिधानस्वरूपा ज्ञेयाः, सर्वथा परिभाव्यम् अत्र पूर्वापराविरोधेन प्रवचनगाम्भीर्यं मुक्त्वाऽभिनिवेशमिति सङ्घाचारवृत्तौ इति, तावत्कालमेव जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनाम्, कारणेन पुनर्धर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपिचैत्यवन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातम्, शेषकाले साधूनां जिनाशातनादिभयानानुज्ञातमवस्थानं तीर्थकरगणधरादिभिः, ततो व्रतिभिरप्येवमाशातनाः परिह्रियन्ते, गृहस्थैस्तु सुतरां परिहरणीया इति तस्माच्चैत्यालयाद्यथोचिते स्थाने गमनं युक्तिमत् ।
अत्र चार्थार्जनमित्यनुवाद्यं न तूपदेश्यम्, तस्य स्वयंसिद्धत्वात्, धर्म्यमिति तु विधेयमप्राप्तत्वात्, 'अप्राप्ते हि शास्त्रमर्थवत् न हि गृहस्थोऽर्थमर्जयेद् बुभुक्षितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते, अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धतमसविलुप्तावलोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्राप्यप्राप्ते विषये उपदेशः सफल इति चिन्तनीयम् नच सावद्यारम्भेषु शास्तृणां वाचनिक्यप्यनुमोदना युक्ता, यदाहुः"सावज्जणवज्जाणं, वयणाणं जो ण जाणइ विसेसं । वुत्तुंपि तस्स न खमं, किमंग पुण देसणं काउं ।।१।।" इति । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमाधमयोश्च माध्यस्थ्येन न्यायदर्शनाद् बोद्धव्यः नियोगिनां धर्माविरोधो राजप्रजार्थयोः साधनेन अभयकुमारादिवत् वणिगादीनां च धर्माविरोधो व्यवहारशुद्धिदेशादिविरुद्धकृत्यपरिहारोचितकार्याचरणैराजीविकां कुर्वतां भवति, तथैव चोक्तम्