________________
૧૧૭
धर्मसंग्रह भाग-4 / द्वितीय मधिमार / -93 “ववहारसुद्धिदेसाइविरुद्धच्चायउचिअचरणेहिं । ता कुणइ अत्थचिंतं, निव्वाहितो निअं धम्मं ।।१।।" ति । (श्राद्धविधि प्रकरण, गाथा-७)
व्याख्या-आजीविका च सप्तभिरुपायैः स्यात्, वाणिज्येन १, विद्यया २, कृष्या ३, शिल्पेन ४, पाशुपाल्येन ५, सेवया ६, भिक्षया च ७ । तत्र वाणिज्येन वणिजाम् १, विद्यया वैद्यानाम् २, कृष्या कौटुम्बिकादीनाम् ३, पाशुपाल्येन गोपालादीनाम् ४, शिल्पेन चित्रकरादीनाम् ५, सेवया सेवकानाम् ६, भिक्षया भिक्षाचराणाम् ७ एषु च वणिजां वाणिज्यमेव मुख्यवृत्त्यार्थार्जनोपायः श्रेयान् पठ्यतेऽपि
"महुमहणस्य य वच्छे, न चेव कमलायरे सिरी वसइ । किंतु पुरिसाण ववसायसायरे तीर सुहडाणं ।।१।।"
वाणिज्यमपि स्वसहायनीवीबलस्वभाग्योदयकालाद्यनुरूपमेव कुर्यादन्यथा सहसा त्रुट्याद्यापत्तेः वाणिज्ये व्यवहारशुद्धिश्च द्रव्यक्षेत्रकालभावभेदाच्चतुर्की-तत्र द्रव्यतः पञ्चदशकर्मादानादि बह्वारम्भादिनिदानं भाण्डं सर्वात्मना त्याज्यम्, स्वल्पारम्भ एव वाणिज्ये यतनीयम्, दुर्भिक्षादावनिर्वाहे तु यदि बह्वारम्भं खरकर्माद्यप्याचरति, तदाऽनिच्छुः स्वं निन्दन् सशूकतयैव करोति, यदुक्तं भावश्रावकलक्षणे"वज्जइ तिव्वारंभं, कुणइ अकामो अनिव्वहंतो अ । थुणइ निरारंभजणं, दयालुओ सव्वजीवेसुं ।।१।।" “धन्ना य महामुणिणो, मणसावि करंति जे न परपीडं । आरंभपावविरया, भुंजंति तिकोडिपरिसुद्धं ।।२।।" अदृष्टमपरीक्षितं च पण्यं न स्वीकार्य, समुदितं शङ्कास्पदं च समुदितैरेव ग्राह्यम्, न त्वेकाकिना, विषमपाते तथैव साहायकादिभावात्
क्षेत्रतः स्वचक्रपरचक्रमान्द्यव्यसनाधुपद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रे व्यवहार्य, न त्वन्यत्र बहुलाभेऽपि, कालतोऽष्टाहिकात्रयपर्वतिथ्यादौ व्यापारस्त्याज्यस्तथा वर्षादिकालविरुद्धोऽपि व्यापारस्त्याज्यः, भावतस्त्वनेकधा क्षत्रियादिसायुधैः सह व्यवहारः स्वल्पोऽपि प्रायो न गुणाय, उद्धारके च नटविटादिविरोधकारिभिः सह न व्यवहार्यम्, कलान्तरव्यवहारोपि समधिकग्रहणकादानादिनैवोचितोऽन्यथा तन्मार्गणादिहेतुक्लेशविरोधधर्महान्याद्यनेकानर्थप्रसङ्गात्, अनिर्वहंस्तु यदि उद्धारके व्यवहरति, तदा सत्यवादिभिरेव सह, कलान्तरमपि देशकालाद्यपेक्षयैकद्विकत्रिकचतुष्कपञ्चकवृद्ध्यादिरूपं विशिष्टजनानिन्दितमेव ग्राह्यम्, स्वयं वा वृद्ध्या धने गृहीते तद्दायकस्यावधेः प्रागेव देयम्, जातु धनहान्यादिना तथाऽशक्तोऽपि शनैःशनैस्तदर्पण एव यतते, अन्यथा विश्वासहान्या व्यवहारभङ्गप्रसङ्गः, ऋणच्छेदे च न विलम्बनीयम्, तदुक्तम्