________________
૧૧૫
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | CIS-५३
पर्यायो ब्रह्मचर्यं तत्प्रभूतकालं येन पालितम्, परिषद्विनीता साधुसंहतिस्तत्प्रतिबद्धा, पुरुषं, ज्ञात्वा, कथं ? कुलगणसङ्घकार्याण्यस्यायत्तानीति, एवं तदधीनं क्षेत्रमिति, कालम्, अवमप्रतिजागरणमस्य गुण इति, आगमं सूत्रार्थोभयरूपमस्यास्तीति ज्ञात्वेति ।
साम्प्रतमेतदकरणे दोषमाह'एआइँ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । ण भवइ पवयणभत्ती, अभत्तिमंताइआ दोसा ।।५।। [बृहत्कल्पभाष्ये ४५४९] तथा- । “उप्पन्नकारणंमी, किइकम्मं जो न कुज्ज दुविहंपि । पासत्थाईआणं, उग्घाया तस्स चत्तारि ।।१।।" [बृहत्कल्पभाष्ये ४५४०]
दुविहंपीति अभ्युत्थानवन्दनलक्षणमित्यलं प्रसङ्गेन, प्रकृतमनुसरामः तथा श्रमणोपासकादीनामादिशब्दाच्छ्राविकाणां च वन्दे वन्द इत्यपभ्रंशभाषया जल्पति, वन्दे वन्दे इति वा क्रिया, द्वित्वे सर्वान् श्रावकान् श्राविकांश्च नमस्कुर्व इत्यर्थः, इति अथ कदाचित्सूरिस्तत्र चैत्ये नागतस्तदोपाश्रये स्वा गत्वा वन्दनादिः सकलोऽपि विधिः कार्यो, यतो दिनकृत्ये- . “अह धम्मदेसणत्थं च, तत्थ सूरी न आगओ । पुव्वुत्तेण विहाणेणं, वसहीए गच्छए तओ ।।१।।" [श्राद्धदिनकृत्ये १४६] त्ति' । ततः किं कर्त्तव्यमित्याह-तथेत्यादि, तथेति धर्मान्तरसमुच्चयार्थः, 'यथोचिते' यथायोग्ये स्थाने हट्टादौ, 'गत्वा' गमनं कृत्वा 'धर्म्यधर्माविरुद्धं धर्मात्स्वयंस्वीकृतव्रताभिग्रहादिरूपाद् व्यवहारशुद्ध्यादेर्वाऽनपेतमिति व्युत्पत्तेः, 'अर्थार्जनं' द्रव्योपार्जनकरणम्, अन्वयः प्राग्वदेव, यथोचितमिति यदा राजादिस्तदा धवलगृहम्, यद्यमात्यादिस्तदा करणम्, अथ वणिगादिस्तदा आपणमिति ।
बहुकालं हि चैत्यायतनेऽवस्थितिर्दोषाय, यत उक्तं साधूनुद्दिश्य व्यवहार भाष्ये“जइवि न आहाकम्मं, भत्तिकयं तहवि वज्जयंतेहिं । भत्ती खलु होइ कया, जिणाण लोएवि दिटुंतु ।।१।।" "बंधित्ता कासवओ, वयणं अट्ठपुडसुद्धपोत्तीए । . पत्थिवमुवासए खलु, वित्तिनिमित्तं भयाई वा ।।२।।" पार्थिवस्थानीयायास्तीर्थकरप्रतिमाया भक्तिनिमित्तं चैत्यायतनं साधवः प्रविशन्ति, नतु तत्रैव तिष्ठन्ति इति तद्वृत्तिः, कुत इत्याह