________________
૧૧૪
धर्मसंग्रा लाग-4 / द्वितीय अधिवार | 24t5-93 “संकिन्नवराहपदे, अणाणुतावी अ होइ अवरद्धे । उत्तरगुणपडिसेवी, आलंबणवज्जिओ वज्जो ।।१।।" [बृहत्कल्पभाष्ये ४५४५]
मूलगुणप्रतिसेवी नियमादचारित्री, स च स्फुटमेवावन्दनीय इति न तद्विचारणा, उत्तरगुणसेविनस्तु विचारणेतिभावः नन्वेवमादापन्नं सालम्बन उत्तरगुणप्रतिसेव्यपि वन्दनीयः?, सूरिराह न केवलं स एव वन्द्यः, किंतु मूलगुणप्रतिसेव्यप्यालम्बनसहितः, कथमितिचेद्!, उच्यते- . “हिट्ठट्ठाणठिओविहु, पावयणि गणट्ठया उ अधरे उ । कडजोगि जं निसेवइ, आइनिअंठुव्व सो पुज्जो ।।२।।" [बृहत्कल्पभाष्ये ४५२५] प्रावचनिकस्याचार्यस्य गच्छस्यानुग्रहार्थमधरे आत्यंतिके कारणे समुपस्थिते कृतयोगी गीतार्थः । "कुणमाणो वि अकडणं (अ अकज्ज) कयकरणो णेव दोसमेवमब्भेइ । अप्पेण बहुं इच्छइ, विसुद्धआलंबणो समणो ।।३।।" [बृहत्कल्प भाष्ये ४५२६] सदृष्टान्तं फलितमाहतुच्छमवलंबमाणो, पडइ निरालंबणो अ दुग्गंमी । सालंबणिरालंबे, अह दिटुंतो णिसेवंते ।।४।। [बृहत्कल्पभाष्ये ४५३१] अत एव“दंसणनाणचरित्तं, तवविणयं जत्थ जत्तिअं पासे । जिणपण्णत्तं भत्तीइ, पूअए तं तर्हि भावे ।।१।।" [बृहत्कल्पभाष्ये ४५५३]
इत्यलं प्रसक्तानुप्रसक्तेन, सम्बन्धगाथाया एव शेषमर्थं प्रस्तुमः, तथा चरणकरणाभ्यां प्रकर्षण भ्रष्टस्ततोऽपि पूर्वेण द्वन्द्वः, इत्थंभूते लिङ्गावशेषमात्रे केवलद्रव्यलिङ्गयुक्ते, यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः किं विशेषयति? कारणापेक्षं कारणमाश्रित्य यत्क्रियते तद्वक्ष्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एवेति । किं तत् क्रियते? इत्यत आह'वायाइ नमुक्कारो, हत्थुस्सेहो अ सीसणमणं च ।
संपुच्छणाछणं छोभवंदणं वंदणं वावि ।।३।।' [बृहत्कल्पभाष्ये ४५४५] _ 'वायाएत्ति' निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते, कीदृशस्त्वमित्यादि, सम्प्रच्छनं कुशलस्य, 'अंछणंति' बहुमानं तत्संनिधावासनं कियत्कालमिति, एष बहिर्दृष्टस्य विधिः, कारणविशेषे तु तत्प्रतिश्रयेऽपि गम्यते, तत्राप्येष एव विधिरग्रेतनोऽपि च, कारणान्याह“परिवार परिस पुरिसं, खेत्तं कालं च आगमं नच्चा ।। कारणजाए जाए, जहारिहं जस्स जं कोयव्बं ।।४।।" [बृहत्कल्पभाष्ये ४५५०]